एवं संस्थाप्य तं शक्रो हिमाचलसुतं नगम्
किं वरेण करिष्यामि त्वत्प्रसादादहं सुखी
इन्द्र उवाच न वृथा दर्शनं मे स्यादपि स्वप्ने नगात्मज
तव मूर्धनि विप्रार्थं स पुरं स्थापयिष्यति
तत्र ब्राह्मणशार्दूला वेदवेदांगपारगाः
तथाहं चैत्रमासस्य चतुर्दश्यां नगात्मज
पूजयिष्यामि देवेशं हाटकेश्वरसंज्ञितम्
तमेकं दिवसं चात्र शृंगे तव हरः स्वयम्
प्रभावस्तेन ते मुख्य स्त्रैलोक्येऽपि भविष्यति
रक्तशृंगोऽपि तस्थौ च व्याप्य नागबिलं तदा
तस्योपरि सुमुख्यानि तीर्थान्यायतनानि च
आनर्त्ताधिपतिर्भूपश्चमत्कार इति स्मृतः ॥। स ददर्श मृगीं दूरान्निश्चलांगीं तरोरधः
अथ तां पार्थिवस्तूर्णं शरेणानतपर्वणा
सहसा सा हता तेन गार्द्ध्रपत्रेण पत्रिणा
अथ दृष्ट्वा महीपालं नातिदूरे धनुर्धरम्
हताऽहं बालवत्साऽद्य शरेणानतपर्वणा
नाऽहं शोचामि भूपाल मरणं स्वशरीरगम्
यस्मात्त्वयेदृशं कर्म निर्दयं समनुष्ठितम्
तस्मात्स्वधर्मसंयुक्तं न मां त्वं शप्तुमर्हसि
क्षत्त्रियाणां वधार्थाय मृगाः सृष्टाः स्वयंभुवा ॥ ६.१०.
परं तेन विधिस्तेषांकृतो यस्तं महीपते
सुप्तं मैथुनसंयुक्तं स्तनपानक्रियोद्यतम्
एतस्मात्कारणाच्छापस्तव दत्तो मया नृप
एवमुक्त्वा मृगी प्राणान्सा मुमोच व्यथान्विता
स दृष्ट्वा कुष्ठसंयुक्तं पार्थिवः स्वं कलेवरम्
अहं तपश्चरिष्यामि पूजयिष्यामि शंकरम्
यत्किंचित्त्रिषु लोकेषु प्रार्थयंति नराः सुखम्
समः शत्रुषु मित्रेषु समलोष्टाश्मकांचनः ६.१०.
एवं तान्सेवकान्भूपः सोऽभिधाय विसृज्य च
ततः कालेन महता प्राप्य विप्रसमुद्भवम्