ततः संचिंतयामास पूरणं त्रिदशाधिपः
ततस्तं प्राह देवेज्यःस्वय मेव शतक्रतुम्
अस्ति पर्वतमुख्योऽत्र नाम्ना ख्यातो हिमालयः
मैनाकः प्रथमः प्रोक्तो द्वितीयो नंदिवर्धनः ६.९.
स मैनाकः समुद्रांतः प्रविष्टः शक्र ते भयात्
नंदिवर्धन इत्येष द्वितीयः परिकीर्तितः
हिमाचलसमादेशाद्वसिष्ठस्य च सन्मुनेः
तृतीयस्तिष्ठतेऽद्यापि रक्तशृंगः स्मृतोऽत्र यः
नान्यथा पूरितुं शक्यो बिलोऽयं त्रिदशाधिप
तच्छ्रुत्वा देवपूज्यस्य वचनं त्रिदशाधिपः
ततः प्रोवाच तं गत्वा सामपूर्वमिदं वचः
तेन गत्वा नरा देवं पाताले हाटकेश्वरम्
पूजयिष्यंति ये केचिदपि पापपरायणाः
तस्मात्पुत्रमिमं तत्र रक्तशृंगं हिमालय ६.९.
कुरुष्व त्वं ममातिथ्यं गृहप्राप्तस्य पर्वत
बाढमित्येव सोऽप्युक्त्वा पूजयित्वा च देवपम्
तवार्थाय सहस्राक्षः पुत्र प्राप्तो ममांतिकम्
पूरयित्वा ममादेशात्तं त्वं शक्रस्य कृत्स्नशः
यत्र कण्टकिनो वृक्षा रूक्षाः फलविवर्जिताः
न सिद्धा न च गंधर्वा न देवा न च किंनराः
तथा पापसमाचारा मनुष्याः शीलवर्जिताः
तथा मम नगश्रेष्ठ पक्षौ द्वावपि कर्तितौ
तस्मात्कंचित्सहस्राक्ष उपायं तत्कृते परम्
तत्रापि सुशुभा वृक्षा भविष्यंति तवाश्रयाः ॥ ६.९.
तथा पुण्यानि तीर्थानि देवतायतनानि च
अत्रस्थस्य प्रभावो यस्तव पर्वत नंदन
तथा ये मानवास्तत्र पापात्मानोऽपि भूतले
तस्माद्गच्छ द्रुतं तत्र मया सार्धं नगात्मज
प्रविष्टः सहसागत्य तस्मिन्नागबिले गतः
निमग्नो ब्राह्मणश्रेष्ठा नासाग्रं यावदेव हि वृक्षगुल्मलताकीर्णै रम्यपक्षिनिषेवितैः