कुरुष्व वचनं शीघ्रं भावनीयं न चान्यथा ६.८.
हाटकेश्वरजे क्षेत्रे यत्र देवः स्वयं हरः
येन नागा धरापृष्ठे निर्गच्छंति व्रजंति च स्नात्वा पातालगंगायां पूजयस्व महेश्वरम्
ततः पापविनिर्मुक्तो भविष्यसि न संशयः
जगाम सत्वरं तत्र यत्र नागबिलः स च
ततः प्रविश्य पातालं गंगातोयपरिप्लुतः
अथ तस्य क्षणाज्जातं शरीरं मलवर्जितम्
एतस्मिन्नंतरे प्राप्ता ब्रह्मविष्णुमुखाः सुराः
प्राप्तस्तु मेध्यतां शक्र विमुक्तो ब्रह्महत्यया
एतन्नाग बिलं शक्र पुनः पूरय पांसुभिः
एतल्लिंगं समभ्यर्च्य स्नात्वा भागीरथीजले ६.८.
ततो जज्ञे महांस्तत्र स्वर्गे वृत्रवधोत्सवः
माहात्म्यं ब्राह्मणश्रेष्ठाः सर्वपातकनाशनम्
यश्चैतत्कीर्तयेद्भक्त्या शृणोति च समाहितः
हाटकेश्वरजेक्षेत्रे महान्नागबिलोऽस्ति वै
तं पूरय ममादेशाद्द्रुतं गत्वाऽभिपांसुभिः
लिंगोद्भवस्तदा शापः प्रदत्तो मे पुरारिणा
यस्माल्लिंगं ममैतद्वै त्वया पांसुभिरावृतम्
यद्वत्कर्पूरजं गन्धं समग्रं त्वं हि वक्ष्यसि
तस्मात्कुरु प्रसादं मे विदित्वैतत्सुरेश्वर
ततः संचिंतयामास पूरणं त्रिदशाधिपः
ततस्तं प्राह देवेज्यःस्वय मेव शतक्रतुम्
अस्ति पर्वतमुख्योऽत्र नाम्ना ख्यातो हिमालयः
मैनाकः प्रथमः प्रोक्तो द्वितीयो नंदिवर्धनः ६.९.
स मैनाकः समुद्रांतः प्रविष्टः शक्र ते भयात्
नंदिवर्धन इत्येष द्वितीयः परिकीर्तितः
हिमाचलसमादेशाद्वसिष्ठस्य च सन्मुनेः
तृतीयस्तिष्ठतेऽद्यापि रक्तशृंगः स्मृतोऽत्र यः
नान्यथा पूरितुं शक्यो बिलोऽयं त्रिदशाधिप
तच्छ्रुत्वा देवपूज्यस्य वचनं त्रिदशाधिपः