ततो देवाः प्रहृष्टास्ते गृहीत्वास्थीनि कृत्स्नशः
अथ शक्रस्तदादाय नैमिषाभिमुखो ययौ
तत्र ध्यानस्थितं वृत्रं दूरस्थस्त्रिदशाधिपः ६.८.
सोऽपि वजप्रहारेण भस्मसात्सम पद्यत
शक्रोऽपि भयसंत्रस्तो गत्वा सागरमध्यगम्
न जानाति हतं वृत्रं वज्रघातेन तेन तम्
एतस्मिन्नंतरे देवाः संप्रहृष्टतनूरुहाः । सूत्रं विनिहतं दृष्ट्वा तुष्टुवुस्त्रिदशाधिपम्
न जानंति भयान्नष्टं तस्मिन्सागरपर्वते । अन्विष्य चिरकालेन कृच्छ्रात्संप्राप्य तं ततः
वीक्षांचक्रुः समासीनं विषमे गिरिगह्वरे
गात्रदुर्गंधितासंगैः पूरयन्तं दिशो दश
अथोवाच चतुर्वक्त्रो दृष्ट्वा शक्रं तथाविधम्
शक्रोऽयं विबुधश्रेष्ठा ब्रह्महत्यापरिप्लुतः । तस्मातत्त्याज्यः सुदूरेण नो चेत्पापमवाप्स्यथ
पश्यध्वं सर्वलिंगानि ब्रह्महत्यान्वितानि च ६.८.
पितामहमुखान्दृष्ट्वा देवान्प्राप्तान्सुराधिपः । ततः प्रोवाच संभ्रांतः किमिदं गम्यते सुराः
कच्चित्स निहतस्तेन मम वज्रेण दानवः
गतो मृत्युवशं पापो न भयं कर्तुमर्हसि
परं तस्य वधाज्जाता ब्रह्महत्या सुगर्हिता
ब्रह्महत्या न संजाता मम हत्याधुना कथम्
विशुद्धा दानवाः सर्वे तेन जातं न पातकम्
एष यज्ञोपवीताढ्यो विशेषात्तपसि स्थितः। छलेन निहतः शक्र तेन त्वं पापसंयुतः
इन्द्र उवाच जानाम्यहं चतुर्वक्त्र स्वं कायं पापसंयुतम्
यया याति द्रुतं पापं ब्रह्महत्यासमुद्भवम् ६.८.
तीर्थयात्रां सुरश्रेष्ठ तदर्थं कर्तुमर्हसि । तया विना न ते पापं नाशमायाति कृत्स्नशः
बभ्राम सकलां पृथ्वीं स्नानं कुर्वन्पृथक्पृथक्
तीर्थेषु सुप्रसिद्धेषु नदीनदयुतेषु च
अहं स्नातः समस्तेषु तीर्थेषु धरणीतले
किं पतामि गिरेः शृंगाद्विषं वा भक्षयामि किम्
एवं वैराग्यमापन्नो गिरिमारुह्य वासवः ॥ यावत्क्षिपति चात्मानं मरणे कृतनिश्चयः
तावद्देवोत्थिता वाणी गगनाद्द्विजसत्तमाः
त्वया राज्यं प्रकर्तव्यं स्वर्गेऽद्यापि युगाष्टकम्