पुलस्त्य उवाच स्नानमात्रेण विप्रोऽसौ दिव्यरूपमवाप ह
तस्मिन्दिने नृपश्रेष्ठ स्नानं तत्र समाचरेत्
इति श्रीस्कान्दे महापुराण एकाशीति साहस्र्यां संहितायां सप्तमे प्रभासखण्डे तृतीयेऽर्बुदखण्डे पंगुतीर्थमाहात्म्यवर्णनंनाम सप्तदशोऽध्यायः
पुलस्त्य उवाच ततो गच्छेन्नृपश्रेष्ठ यमतीर्थमनुत्तमम्
पुरा चित्रांगदो नाम राजा परमलोभवान्
अतीव निष्ठुरो दुष्टो देवब्राह्मणपीडकः
सत्यशौचविहीनस्तु मायामत्सरसंयुतः
अटनात्स परिश्रांतः क्षुत्पिपासासमाकुलः
पद्मिनीभिः समाकीर्णो ग्राहनक्रझषाकुलः
तृषार्तः संप्रविष्टः स तस्मिन्नेव जलाशये
तस्यार्थे नरका रौद्रा निर्मिताश्च यमेन च
तस्य स्पर्शेन ते सर्वे नरकस्था सुखं गताः आचख्युर्विस्मयाविष्टा नरकस्थानां सुखोद्भवम्
तदा वैवस्वतः प्राह भूमावस्त्यर्बुदाचलः 7.3.18.
तत्रासौ मृत्युमापन्नो भात्यदस्त्विह कारणम् ग्राहेण स धृतस्तत्र मृत्युं प्राप्तो नृपाधमः
यम उवाच मुच्यतामाशु तेनायं नानेयाश्चापरे जनाः
ततस्तैः किंकरैर्मुक्तो यमवाक्यान्नृपोत्तम
यस्तु भक्तिसमायुक्तः स्नानं तत्र समाचरेत्
तस्मात्सर्वप्रयत्नेन स्नानं तत्र समाचरेत्
तस्मिन्नेव नरः सम्यक्छ्राद्धकृत्यं समाचरेत्
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभास खंडे तृतीयेऽर्बुदखण्डे यमतीर्थमाहात्म्यवर्णनंनामाष्टादशोऽध्यायः
वाराहस्य हरेरिष्टं सदा वाससुखप्रदम्
वाराहेणावतारेण पृथ्वी तत्र समुद्धृता
अहं चेतो गमिष्यामि वैकुण्ठे च पुनः शुभे
अनेन वपुषा तिष्ठ ह्यस्मिंस्तीर्थे सदा हरे
अहं स्थास्यामि ते वाक्यात्सदा लोक हिते रतः
ममाग्रे यो ह्रदः पुण्यः सुनिर्मलजलान्वितः
तत्र स्नात्वा नरो भक्त्या मुच्यते ब्रह्महत्यया
पितॄणां जायते तृप्तिर्यावदाभूतसंप्लवम्
तस्मिन्दिने नृपश्रेष्ठ स्नात्वा व्रतं समाचरेत्
तर्पणं पिंडदानं च यः कुर्याद्भक्तितत्परः 7.3.19.