पुनःपुनर्गुरुं प्राह शिष्यो निर्बन्धवान्यदा
सुवर्णस्य सुवर्णस्य चतुर्दश समाहर
इत्युक्तो गुरुणा कौत्सो विचार्य समुपागमत्
इत्युक्तं ते मुनिवर त्वया पृष्टं हि यत्पुनः
तस्माद्दक्षिणदिग्भागे संभेदः सिद्धसेवितः
तत्र स्नात्वा महाभाग भवन्ति विरजा नराः तदाप्नोति स धर्मात्मा तत्र स्नात्वा यतव्रतः ।। 2.8.5.
स्वर्णादिकं च यो दद्याद्ब्राह्मणे वेदपारगे
तिलोदकीसरय्वोश्च संगमे लोकविश्रुते
उपवासं च यः कृत्वा विप्रान्संतर्पयेन्नरः
एकाहारस्तु यस्तिष्ठेन्मासं तत्र यतव्रतः
नभस्य कृष्णामावस्यां यात्रा सांवत्सरी भवेत्
सिंधुजानां तुरंगाणां जलपानाय सुव्रत
तिलोदकीति विख्याता पुण्यतोया सदा नदी स्नातो विमुच्यते पापैः सप्तजन्मार्जितैरपि
तस्मात्तिलोदकीस्नानं सर्वपापहरं मुने स्नानं दानं व्रतं होमं सर्वमक्षयतां व्रजेत्
इति विविधविधानैस्तीर्थयात्रांक्रमेण प्रथितगुणविकासः प्राप्तपुण्योविधाय
सीताकुण्डमितिख्यातं सर्वकामफलप्रदम्
यत्र स्नात्वा नरो विप्र सर्वपापैः प्रमुच्यते रामेण वरदानाच्च महाफलनिधीकृतम्
त्वत्कुण्डस्यास्य सुभगे त्वत्प्रीत्या कथयाम्यहम्
अत्र स्नानं च दानं च जपो होमस्तपोऽथवा
मार्गकृष्णचतुर्दश्यां तत्र स्नानं विशेषतः
इति रामो वरं प्रादात्सीतायै च प्रजाप्रियः
सीताकुण्डमिति ख्यातं जनानां परमाद्भुतम्
तत्र स्नानेन दानेन तपसा च विशेषतः रामं संपूज्य सीतां च मुक्तः स्यान्नात्र संशयः
मार्गे मासि च स्नातव्यं गर्भवासो न जायते
विभोर्विष्णुहरेर्विप्र रम्ये पश्चिमदिक्तटे 2.8.6.
तस्य चक्रहरेर्विप्र महिमा न हि मानवैः
ततः पश्चिमदिग्भागे नाम्ना पुण्यं हरिस्मृति यस्य दर्शनमात्रेण सर्वपापैः प्रमुच्यते
तयोर्दर्शनतो यांति तेषां पापानि देहिनाम्
पुरा देवासुरे जाते संग्रामे भृशदारुणे
तेषां पलायमानानां देवानामग्रणीर्हरः