कथं गतिर्भवेत्तत्र मम ब्रूहि यथातथम्
येन शक्रं विरंचिं च सूदयिष्ये तथाखिलम्
तस्मात्त्रैलोक्यराज्येन संतोषं कर्तुम र्हसि
तस्मान्निष्कंटकार्थाय यतिष्येऽहं द्विजोत्तम ॥ ६.८.
कथं शक्रस्य संजाता गतिस्तत्र भृगूद्वह
यावद्वर्षसहस्रांतं ध्यायमानेन शंकरम्
तत्प्रभावाद्गतिस्तस्य तत्र जाता सदैव हि
योऽन्योऽपि नैमिषारण्ये तद्रूपं कुरुते तपः
तपश्चक्रे ततस्तीव्रं ध्यायमानो महेश्वरम्
त्रैलोक्यरक्षणार्थाय संनिरूप्य दनूत्त मान्
वर्षास्वाकाशस्थायी स हेमन्ते सलिलाश्रयः
एवं तस्य व्रतस्थस्य जग्मुर्वर्षशतानि च
चक्रुश्च सततं मंत्रं तद्विनाशाय केवलम्
अथाब्रवीत्स्वयं विष्णुश्चिरं निश्चित्य चेतसा ॥ वधोपायं समालोक्य वृत्रस्य प्रमुदान्वितः । ६.८.
तच्छ्रुत्वा कुरु शीघ्रं त्वमुपायो नास्ति कश्चन
अवध्यः सर्वशस्त्राणां स कृतः शूलपाणिना
गजस्य शरभस्याथ किं वान्यस्य वदस्व मे
मध्ये क्षामं तु पार्श्वाभ्यां स्थूलं रौद्रसमाकृति
यस्यास्थिभिर्विधीयेत वजमेवंविधाकृति
द्विगुणं च तथा दीर्घः सरस्वत्यां कृताश्रमः
तं गत्वा प्रार्थयाशु त्वं स्वान्यस्थीनि प्रदास्यति
ततः शक्रः सुरैः सार्धं गत्वा तस्य तदाश्रमम्
स प्रणम्य सहस्राक्षं तथान्यानपि सन्मुनिः ६.८.
ततः प्रोवाच हृष्टात्मा विनयावनतः स्थितः
दधीचिरुवाच किमर्थमागता देवाः कृत्यं चाशु निवेद्यताम्
स वध्यो नहि शस्त्राणां सर्वेषां वरपुष्टितः
सोऽस्थिसंभववज्रस्य वध्यः स्यादब्रवीद्धरिः
त्वां मुक्त्वा ब्राह्मणश्रेष्ठ तस्मादस्थीनि यच्छ नः
कुरु कृत्यं द्विजश्रेष्ठ देवानामार्तिनाशनम्
तच्छ्रुत्वा संप्रहृष्टात्मा दधीचिर्भगवान्मुनिः