नियता नियताहारा स्नानजप्यपरायणा
ततो वर्षसहस्रांते तस्यास्तुष्टो महेश्वरः
सा वव्रे मम पुत्रोऽस्तु भगवंस्त्वत्प्रसादतः
वेदाध्ययन संपन्नो यज्ञकर्मसमुद्यतः ६.८.
अवध्यः सर्वशस्त्राणां महातेजोभिरन्वितः
यज्वा दानपतिः शूरो वेदवेदांगपारगः अजेयः संगरे चैव कृत्स्नैरपि सुरासुरैः
एवमुक्त्वा स देवेशस्ततश्चादर्शनं गतः
ततश्च सुषुवे पुत्रं दशमे मासि शोभनम्
तस्य चक्रे पिता नाम प्राप्ते द्वादशमे दिने ॥। प्रसिद्धं वृत्र इत्येव पूजयित्वा द्विजोत्तमान्
अथासौ ववृधे बालः शुक्लपक्षे यथोडुराट्
ततोऽस्य प्रददौ काले व्रतं विप्रजनोचितम्
स चापि चतुरो वेदान्ब्रह्मचारिव्रते स्थितः
ततो यौवनमासाद्य भूमिपालानशेषतः
ततश्चेंद्रजयाकांक्षी समासाय सुरालयम् ६.८.
अथ तेन समं वज्री चक्रेऽष्टादश संयुगान्
हतशेषैः सुरैः सार्धं सर्वांगक्षतविक्षतैः
वृत्रोऽपि बुभुजे कृत्स्नं त्रैलोक्यं सचराचरम्
यज्ञभागभुजश्चक्रे दानवान्बल गर्वितान्
एवं त्रैलोक्यराज्येऽपि लब्धे तस्य द्विजोत्तमाः
ततः शुक्रं समाहूय प्रोवाच मधुरं वचः
कथं गतिर्भवेत्तत्र मम ब्रूहि यथातथम्
येन शक्रं विरंचिं च सूदयिष्ये तथाखिलम्
तस्मात्त्रैलोक्यराज्येन संतोषं कर्तुम र्हसि
तस्मान्निष्कंटकार्थाय यतिष्येऽहं द्विजोत्तम ॥ ६.८.
कथं शक्रस्य संजाता गतिस्तत्र भृगूद्वह
यावद्वर्षसहस्रांतं ध्यायमानेन शंकरम्
तत्प्रभावाद्गतिस्तस्य तत्र जाता सदैव हि
योऽन्योऽपि नैमिषारण्ये तद्रूपं कुरुते तपः
तपश्चक्रे ततस्तीव्रं ध्यायमानो महेश्वरम्
त्रैलोक्यरक्षणार्थाय संनिरूप्य दनूत्त मान्