हाटकेश्वरमाहात्म्यात्स्वर्गलोकः प्रपूरितः
तस्मात्तत्क्रियतां कर्म येनोच्छेदं प्रगच्छति
ततः संवर्तको वायुः शक्रादेशात्समंततः
एवं नाशमनुप्राप्ते तस्मिंस्तीर्थे स्थलोच्चये ६.८.
ततः कालेन महता वल्मीकः समपद्यत
अथ पातालतो नागास्तेन मार्गेण कौतुकात्
तत्र ते मानवान्भोगान्भुक्त्वा चैव यथेच्छया
ततो नागबिलः ख्यातः स सर्वस्मिन्धरातले
कस्यचित्त्वथ कालस्य भगवान्पाकशासनः
ततः पितामहादेशं लब्ध्वा मार्गेण तेन सः
अथाऽभूत्पापनिर्मुक्तस्तत्क्षणात्तस्य दर्शनात्
स दृष्ट्वा तत्प्रभावं तल्लिंगं देवस्य शूलिनः
यदि कश्चित्पुमानत्र त्रिशंकुरिव भूपतिः
यापयिष्यति तन्नूनं मामस्मात्त्रिदशालयात् ६.८.
ततश्च त्वरया युक्तो रक्तशृंगं नगोत्तमम्
कस्मिन्काले च सर्वं नो विस्तरात्सूत कीर्तय
रक्तशृंगो गिरिः कोऽयं संक्षिप्तस्तत्र तेन यः
विवाहिता रमानाम श्रेष्ठरूपगुणान्विता
अथ तस्या ययौ कालः सुप्रभूतः सुतं विना
ध्यायमाना सुराधीशं देवदेवं महेश्वरम्
नियता नियताहारा स्नानजप्यपरायणा
ततो वर्षसहस्रांते तस्यास्तुष्टो महेश्वरः
सा वव्रे मम पुत्रोऽस्तु भगवंस्त्वत्प्रसादतः
वेदाध्ययन संपन्नो यज्ञकर्मसमुद्यतः ६.८.
अवध्यः सर्वशस्त्राणां महातेजोभिरन्वितः
यज्वा दानपतिः शूरो वेदवेदांगपारगः अजेयः संगरे चैव कृत्स्नैरपि सुरासुरैः
एवमुक्त्वा स देवेशस्ततश्चादर्शनं गतः
ततश्च सुषुवे पुत्रं दशमे मासि शोभनम्
तस्य चक्रे पिता नाम प्राप्ते द्वादशमे दिने ॥। प्रसिद्धं वृत्र इत्येव पूजयित्वा द्विजोत्तमान्
अथासौ ववृधे बालः शुक्लपक्षे यथोडुराट्