तथाऽक्षयास्तु मे देव सृष्टिस्तव प्रसादतः
परं सर्वेषु कृत्येषु यज्ञार्हा न भविष्यति
??? एवमुक्त्वा समादाय त्रिशंकुं प्रपितामहः
इति स्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठेनागरखंडे हाटकेश्वरक्षेत्रमाहात्म्ये त्रिशंकूपाख्याने त्रिशंकुस्वर्गप्राप्तिवर्णनंनाम सप्तमोऽध्यायः
सशरीरे द्विजश्रेष्ठा विश्वामित्रसमुद्यमात् ॥ ६.८.
तत्तीर्थं ख्यातिमायातं समस्ते भुवनत्रये
अस्पृष्टं कलिदोषेण तथान्यैरुपपातकैः
यस्तत्र त्यजति प्राणाञ्छ्रद्धा युक्तेन चेतसा
कृमिपक्षिपतंगा ये पशवः पक्षिणो मृगाः
स्नानं ये तत्र कुर्वंति श्रद्धापूतेन चेतसा
घर्मार्त्ता वा तृषार्ता वा येऽवगाहंति तज्जलम्
विश्वामित्रोऽपि तद्दृष्ट्वा तीर्थमाहात्म्यमुत्तमम्
तथान्ये मुनयः शांतास्त्यक्त्वा तीर्थानि दूरतः
तथैव मनुजाः सर्वे दूरादागत्य सत्वराः ६.८.
एवं तस्य प्रभावेण तीर्थस्य द्विजसत्तमाः
अग्निष्टोमादिका सर्वाः समुच्छेदं गताः क्रियाः
न यच्छति तथा दानं न च तीर्थं निषेवते
ततः प्रगच्छति स्वर्गं विमानवरमाश्रितः
ततः प्रपूरिताः सर्वे स्वर्गलोका नरैर्द्विजाः
ततो देवगणाः सर्वे यज्ञभागविवर्जिताः
हाटकेश्वरमाहात्म्यात्स्वर्गलोकः प्रपूरितः
तस्मात्तत्क्रियतां कर्म येनोच्छेदं प्रगच्छति
ततः संवर्तको वायुः शक्रादेशात्समंततः
एवं नाशमनुप्राप्ते तस्मिंस्तीर्थे स्थलोच्चये ६.८.
ततः कालेन महता वल्मीकः समपद्यत
अथ पातालतो नागास्तेन मार्गेण कौतुकात्
तत्र ते मानवान्भोगान्भुक्त्वा चैव यथेच्छया
ततो नागबिलः ख्यातः स सर्वस्मिन्धरातले
कस्यचित्त्वथ कालस्य भगवान्पाकशासनः
ततः पितामहादेशं लब्ध्वा मार्गेण तेन सः