गृहकृत्यनियुक्तोऽसावेकदा बान्धवैर्नृप
अथासौ तैः परित्यक्तो गत्वार्बुदमथाचलम्
लिंगं संस्थाप्य तत्रैव पूजयामास तं विभुम्
शिवभक्तिपरो जातो वायुभक्षो बभूव ह
ततस्तुष्टो महादेवो ब्राह्मणं नृपसत्तम
तव दास्याम्यहं सर्वं यद्यपि स्यात्सुदुर्लभम्
पंगुभावोऽत्र मे यातु प्रसादात्तव शंकर
तवास्तु सततं चात्र सांनिध्यं सह भार्यया 7.3.17.
ख्यातिं तपःप्रभावेन तीर्थं यास्यति सत्तम
चैत्रशुक्लचतुर्द्दश्यां सांनिध्यं मे भवेत्तथा
पुलस्त्य उवाच स्नानमात्रेण विप्रोऽसौ दिव्यरूपमवाप ह
तस्मिन्दिने नृपश्रेष्ठ स्नानं तत्र समाचरेत्
इति श्रीस्कान्दे महापुराण एकाशीति साहस्र्यां संहितायां सप्तमे प्रभासखण्डे तृतीयेऽर्बुदखण्डे पंगुतीर्थमाहात्म्यवर्णनंनाम सप्तदशोऽध्यायः
पुलस्त्य उवाच ततो गच्छेन्नृपश्रेष्ठ यमतीर्थमनुत्तमम्
पुरा चित्रांगदो नाम राजा परमलोभवान्
अतीव निष्ठुरो दुष्टो देवब्राह्मणपीडकः
सत्यशौचविहीनस्तु मायामत्सरसंयुतः
अटनात्स परिश्रांतः क्षुत्पिपासासमाकुलः
पद्मिनीभिः समाकीर्णो ग्राहनक्रझषाकुलः
तृषार्तः संप्रविष्टः स तस्मिन्नेव जलाशये
तस्यार्थे नरका रौद्रा निर्मिताश्च यमेन च
तस्य स्पर्शेन ते सर्वे नरकस्था सुखं गताः आचख्युर्विस्मयाविष्टा नरकस्थानां सुखोद्भवम्
तदा वैवस्वतः प्राह भूमावस्त्यर्बुदाचलः 7.3.18.
तत्रासौ मृत्युमापन्नो भात्यदस्त्विह कारणम् ग्राहेण स धृतस्तत्र मृत्युं प्राप्तो नृपाधमः
यम उवाच मुच्यतामाशु तेनायं नानेयाश्चापरे जनाः
ततस्तैः किंकरैर्मुक्तो यमवाक्यान्नृपोत्तम
यस्तु भक्तिसमायुक्तः स्नानं तत्र समाचरेत्
तस्मात्सर्वप्रयत्नेन स्नानं तत्र समाचरेत्
तस्मिन्नेव नरः सम्यक्छ्राद्धकृत्यं समाचरेत्
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभास खंडे तृतीयेऽर्बुदखण्डे यमतीर्थमाहात्म्यवर्णनंनामाष्टादशोऽध्यायः