सूत उवाच। तच्छ्रुत्वा वचनं तस्य त्रिशंकोर्मुनिपुंगवः। विश्वामित्रोऽब्रवीद्वाक्यं किंचिल्लज्जासमन्वितः॥६.६.
मा विषादं महीपाल विषयेऽत्र करिष्यसि। अनेनैव शरीरेण त्वां नयिष्याम्यहं दिवम्॥६.६.
तत्तत्कर्म करिष्यामि स्वर्गार्थे नृपसत्तम। तवाभीष्टं करिष्यामि किं वा यास्यामि संक्षयम्॥६.६.
एवमुक्त्वा परं कोपं कृत्वोपरि दिवौकसाम्। उवाच च ततो रौद्रं प्रत्यक्षं तस्य भूपतेः॥६.६.
यथा मया द्विजत्वं हि स्वयमेवार्जितं बलात्। तथा सृष्टिं करिष्यामि स्वकीयां नात्र संशयः॥६.६.
ततस्तं स समालोक्य शंकरं शशिशेखरम्। प्रणम्य विधिवद्भक्त्या स्तुतिं चक्रे महामुनिः॥६.६.
विश्वामित्र उवाच। जय देव जयाचिंत्य जय पार्वतिवल्लभ। जय कृष्ण जगन्नाथ जय कृष्ण जगद्गुरो॥६.६.
जयाचिंत्य जयामेय जयानंत जयाच्युत। जयामर जयाजेय जयाव्यय सुरेश्वर॥६.६.
जय सर्वग सर्वेश जय सर्वसुराश्रय। जय सर्वजनध्येय जय सर्वाघनाशन॥६.६.
त्वं धाता च विधाता च त्वं कर्ता त्वं च रक्षकः। चतुर्विधस्य देवेश भूतग्रामस्य शंकर॥६.६.
यथा तिलस्थितं तैलं यथा दधिगतं घृतम्। तथैवाधिष्ठितं कृत्स्नं त्वया गुप्तेन वै जगत्॥६.६.
त्वं ब्रह्मा त्वं हृषीकेशस्त्वं शक्रस्त्वं हुताशनः। त्वं यज्ञस्त्वं वषट्कारस्त्वमिन्दुस्त्वं दिवाकरः॥६.६.
अथवा बहुनोक्तेन किं स्तवेन तव प्रभो। समासादेव वक्ष्यामि विभूतिं श्रुतिनोदिताम्॥६.६.
यत्किंचित्त्रिषु लोकेषु स्थावरं जंगमं विभो। तत्सर्वं भवता व्याप्तं काष्ठं हव्यभुजा यथा॥६.६.
श्रीभगवानुवाच। परितुष्टोऽस्मि भद्रं ते वरं प्रार्थय सन्मुने। यत्ते हृदि स्थितं नित्यं सर्वं दास्याम्यसंशयम्॥६.६.
विश्वामित्र उवाच। यदि तुष्टोसि देवेश यदि देयो वरो मम। तन्मे स्यात्सृष्टिमाहात्म्यं त्वत्प्रसादान्महेश्वर॥६.६.
एवमस्त्विति तं चोक्त्वा भगवान्वृषभध्वजः। सर्वैर्गणैः समायुक्तस्ततश्चादर्शनं गतः॥६.६.
विश्वामित्रोऽपि तत्रैव स्थितो ध्यानपरायणः। चक्रे चतुर्विधां सृष्टिं स्पर्द्धया हंसगामिनः॥६.६.
सृष्टं संध्याद्वयं तच्च दृश्यतेऽद्यापि वै द्विजाः
ततो देवगणाः सर्वे सृष्टास्तेन महात्मना
मनुष्योरगरक्षांसि वीरुधो वृक्षसंयुताः
एवं हि भगवान्सृष्ट्वा विश्वामित्रः स मन्युमान्
एतस्मिन्नेव काले तु द्वौ सूर्यो युगपद्दिवि द्विगुणानि च भान्येव सह सप्तर्षिभिर्द्विजाः
एवं वियति ते सर्वे स्पर्द्धमानाः परस्परम्
एतस्मिन्नन्तरे शक्रः सह सर्वेर्दिवालयैः ७ प्रोवाचाथ प्रणम्योच्चैः कृतांजलिपुटः स्थितः
सृष्टिः कृता सुरश्रेष्ठ विश्वामित्रेण सांप्रतम्
तस्माद्वारय तं गत्वा स्वयमेव पितामह १० तस्य तद्वचनं श्रुत्वा तेनैव सहितो विधिः
निवृत्तिं कुरु विप्रर्षे सांप्रतं वचनान्मम
यदि गच्छति ते लोके तत्सृष्टिं न करोम्यहम्
अनेनैव शरीरेण त्वत्प्रसादान्मुनीश्वर ॥ १४ विरामं कुरु सृष्टेस्त्वं नैतदन्यः करिष्यति