एवं द्वादशवर्षाणि यजतस्तस्य भूपतेः। व्यतीतानि न संप्राप्तमभीष्टं मनसः फलम्॥६.५.
ततश्चावभृथस्नानं कृत्वा सत्रसमाप्तिजम्। ऋत्विजस्तर्पयित्वा तान्दक्षिणाभिर्यथार्हतः॥६.५.
विससर्ज समस्तांश्च तथान्यानपि संगतान्। संबंधिनो वयस्यांश्च त्रिशंकुर्मुनिसत्तमाः॥६.५.
ततः प्रोवाच विनतो विश्वामित्रं मुनीश्वरम्। स भूपो व्रीडया युक्तः प्रणिपातपुरः सरम्॥६.५.
त्वत्प्रसादान्मया प्राप्तं दीर्घसत्रसमुद्भवम्। परिपूर्णफलं ब्रह्मन्दुर्लभं सर्वमानवैः॥६.५.
तथा जातिः पुनर्लब्धा भूयो नष्टापि सन्मुने। त्वत्प्रसादेन विप्रर्षे चंडालत्वं प्रणाशितम्॥६.५.
परं मे दुःखमेवैकं हृदि शल्यमिवार्पितम्। अनेनैव शरीरेण यन्न प्राप्तं त्रिविष्टपम्॥६.५.
उपहासं करिष्यंति वसिष्ठस्य सुता मुने। अद्य व्यर्थ श्रमं श्रुत्वा मामप्राप्तं त्रिविष्टपम्॥६.५.
तथा तद्वचनं सत्यं वसिष्ठस्य व्यवस्थितम्। यत्तेनोक्तं न यज्ञेन सदेहैर्गम्यते दिवि॥६.५.
सोऽहं तपः करिष्यामि सांप्रतं वनमाश्रितः। न करिष्यामि भूयोऽपि राज्यं पुत्रनिवेदितम्॥६.५.
सूत उवाच। तच्छ्रुत्वा वचनं तस्य त्रिशंकोर्मुनिपुंगवः। विश्वामित्रोऽब्रवीद्वाक्यं किंचिल्लज्जासमन्वितः॥६.६.
मा विषादं महीपाल विषयेऽत्र करिष्यसि। अनेनैव शरीरेण त्वां नयिष्याम्यहं दिवम्॥६.६.
तत्तत्कर्म करिष्यामि स्वर्गार्थे नृपसत्तम। तवाभीष्टं करिष्यामि किं वा यास्यामि संक्षयम्॥६.६.
एवमुक्त्वा परं कोपं कृत्वोपरि दिवौकसाम्। उवाच च ततो रौद्रं प्रत्यक्षं तस्य भूपतेः॥६.६.
यथा मया द्विजत्वं हि स्वयमेवार्जितं बलात्। तथा सृष्टिं करिष्यामि स्वकीयां नात्र संशयः॥६.६.
ततस्तं स समालोक्य शंकरं शशिशेखरम्। प्रणम्य विधिवद्भक्त्या स्तुतिं चक्रे महामुनिः॥६.६.
विश्वामित्र उवाच। जय देव जयाचिंत्य जय पार्वतिवल्लभ। जय कृष्ण जगन्नाथ जय कृष्ण जगद्गुरो॥६.६.
जयाचिंत्य जयामेय जयानंत जयाच्युत। जयामर जयाजेय जयाव्यय सुरेश्वर॥६.६.
जय सर्वग सर्वेश जय सर्वसुराश्रय। जय सर्वजनध्येय जय सर्वाघनाशन॥६.६.
त्वं धाता च विधाता च त्वं कर्ता त्वं च रक्षकः। चतुर्विधस्य देवेश भूतग्रामस्य शंकर॥६.६.
यथा तिलस्थितं तैलं यथा दधिगतं घृतम्। तथैवाधिष्ठितं कृत्स्नं त्वया गुप्तेन वै जगत्॥६.६.
त्वं ब्रह्मा त्वं हृषीकेशस्त्वं शक्रस्त्वं हुताशनः। त्वं यज्ञस्त्वं वषट्कारस्त्वमिन्दुस्त्वं दिवाकरः॥६.६.
अथवा बहुनोक्तेन किं स्तवेन तव प्रभो। समासादेव वक्ष्यामि विभूतिं श्रुतिनोदिताम्॥६.६.
यत्किंचित्त्रिषु लोकेषु स्थावरं जंगमं विभो। तत्सर्वं भवता व्याप्तं काष्ठं हव्यभुजा यथा॥६.६.
श्रीभगवानुवाच। परितुष्टोऽस्मि भद्रं ते वरं प्रार्थय सन्मुने। यत्ते हृदि स्थितं नित्यं सर्वं दास्याम्यसंशयम्॥६.६.
विश्वामित्र उवाच। यदि तुष्टोसि देवेश यदि देयो वरो मम। तन्मे स्यात्सृष्टिमाहात्म्यं त्वत्प्रसादान्महेश्वर॥६.६.
एवमस्त्विति तं चोक्त्वा भगवान्वृषभध्वजः। सर्वैर्गणैः समायुक्तस्ततश्चादर्शनं गतः॥६.६.
विश्वामित्रोऽपि तत्रैव स्थितो ध्यानपरायणः। चक्रे चतुर्विधां सृष्टिं स्पर्द्धया हंसगामिनः॥६.६.
सृष्टं संध्याद्वयं तच्च दृश्यतेऽद्यापि वै द्विजाः
ततो देवगणाः सर्वे सृष्टास्तेन महात्मना