स्नातमात्रोथ राजा स हाटकेश्वदर्शनात्। चंडालत्वेन निर्मुक्तो बभूवार्कसमद्युतिः॥६.४.
ततस्तं स मुनिः प्राह प्रणतं गतकल्मषम्। दिष्ट्या मुक्तोसि राजेंद्र चंडालत्वेन सांप्रतम्॥६.४.
दिष्ट्या प्राप्तः परं तेजो दिष्ट्या प्राप्तः परं तपः। तस्माद्यजस्व सत्रेण विधिवद्दक्षिणावता॥६.४.
येन संप्राप्स्यसे सिद्धिं नित्यं या हृदये स्थिता। त्वत्कृते प्रार्थयिष्यामि स्वयं गत्वा पितामहम्॥६.४.
मखांशं सर्वदेवाद्यो येन गृह्णाति ते मखे। तस्मादत्रैव संभारान्सर्वान्यज्ञसमुद्भवान्। आनय ब्रह्मलोकाच्च यावदागमनं मम॥६.४.
बाढमित्येव सोऽप्याह स मुनिः संशितव्रतः। पितामहमुपागम्य प्रणिपत्याब्रवीद्वचः॥६.४.
याजयिष्याम्यहं भूपं त्रिशंकुं प्रपितामह। मानुषेण शरीरेण येन गच्छति ते पदम्॥६.४.
तस्मादागच्छ तत्र त्वं यज्ञवाटं पितामह। सर्वैः सुरगणैः सार्धं शिवविष्णुपुरःसरैः॥६.४.
प्रगृहाण स्वहस्तेन यज्ञभागं यथोचितम्। सशरीरो दिवं याति येनासौ त्वत्प्रसादतः॥६.४.
ब्रह्मोवाच। न यज्ञकर्मणा स्वर्गःस्वेन कायेन लभ्यते। मुक्त्वा देहांतरं ब्रह्मंस्तस्मान्मैवं वदस्व माम्॥६.४.
वयमग्निमुखाः सर्वे हविर्गृह्णामहे मखे। वेदोक्तविधिना सम्यग्यजमानहिताय वै॥६.४.
तस्माद्वह्निमुखे भूयः स जुहोति हविर्द्विज। ततः संप्राप्स्यति स्वर्गं त्वत्प्रसादादसंशयम्॥६.४.
सूत उवाच। तच्छ्रुत्वा ब्रह्मणो वाक्यं विश्वामित्रो रुषान्वितः। पितामहमुवाचेदं पश्य मे तपसो बलम्॥६.५.
याजयित्वा त्रिशंकुं तं विधिवद्दक्षिणावता। यज्ञेनात्रा(?) नयिष्यामि पश्यतस्ते पितामह॥६.५.
एवमुक्त्वा द्रुतं गत्वा विश्वामित्रो धरातलम्। चकार याजने यत्नं त्रिशंकोः सुमहात्मनः॥६.५.
ददौ दीक्षां समाहूय ब्राह्मणान्वेदपारगान्। यत्रकर्मोचिते काले तस्मिन्नेव वने शुभे॥६.५.
बभूव स स्वयं धीमानध्वर्युर्यज्ञकर्मणि। तस्मिन्होता च शांडिल्यो ब्रह्मा गौतम एव च॥६.५.
आग्नीध्रश्च्यवनो नाम मैत्रावरुणः कार्मिकः। उद्गाता याज्ञवल्क्यश्च प्रतिहर्ता च जैमिनिः॥६.५.
प्रस्तोता शंकुवर्णश्च तथोन्नेता च गालवः। पुलस्त्यो ब्राह्मणाच्छंसी होता गर्गो मुनीश्वरः॥६.५.
नेष्टा चैव तथात्रिस्तु अच्छावाको भृगुः स्वयम्। तान्सर्वानृत्विजश्चक्रे त्रिशंकुः श्रद्धयान्वितः॥६.५.
वासोभिर्मुकुटैश्चैव केयूरैः समलंकृतान्। कृत्वा केशपरित्यागं दधत्कृष्णाजिनं तथा॥६.५.
ऐणशृङ्गसमायुक्तः पयोव्रतपरायणः। दीर्घसत्राय तान्सर्वान्योजयामास वै ततः॥६.५.
एवं तस्मिन्प्रवृत्ते च दीर्घसत्रे यथोचिते। आजग्मुर्ब्राह्मणा दिव्या वेदवेदांगपारगाः॥६.५.
तथान्ये तार्किकाश्चैव गृहस्थाः कौतुकान्विताः। दीनांधकृपणाश्चैव ये चान्ये नटनर्तकाः॥६.५.
दीयतां दीयतामाशु एतेषामेतदेव हि। भुज्यतांभुज्यतां लोकाः प्रसादः क्रियतामिति॥६.५.
इत्येष निनदस्तत्र श्रूयते सततं महान्। यज्ञवाटे सदा तस्मिन्नान्यश्चैव कदाचन॥६.५.
तत्र सस्यमयाः शैला दृश्यंते परिकल्पिताः। सुवर्णस्य च रूप्यस्य रत्नानां च विशेषतः॥६.५.
दानार्थं ब्राह्मणेंद्राणामसंख्याश्चापि धेनवः। तथैव वाजिनो दांता मदोन्मत्ता महागजाः॥६.५.
समंतात्कल्पितास्तत्र दृश्यंते पर्वतोपमाः। वर्तमाने महायज्ञे तस्मिन्नेव सुविस्तरे॥६.५.
आहूता यज्ञभागाय नाभिगच्छंति देवताः। केवलं वह्निवक्त्रेण तस्य गृह्णंति तद्धविः॥६.५.