नासाध्यं विद्यते किंचित्त्रिषु लोकेषु ते मुने। तस्मात्कुरु प्रतीकारं दुःखितस्य ममाधुना॥६.४.
सूत उवाच। तस्य तद्वचनं श्रुत्वा विश्वामित्रो मुनीश्वरः। वसिष्ठस्पर्धयोवाच मुनिमध्ये व्यवस्थितः॥६.४.
अहं त्वां याजयिष्यामि तेन यज्ञेन पार्थिव। गच्छसि त्रिदिवं येन इष्टमात्रेण तत्क्षणात्॥६.४.
त्वमेवं विहितो भूप वासिष्ठैरंत्यजस्तु तैः। मया भूयोऽपि भूपालः कर्तव्यो नात्र संशयः॥६.४.
तस्मादागच्छ भूपाल तीर्थयात्रां मया सह। कुरु तीर्थप्रभावेण येन त्वं स्याः शुचिः पुनः॥६.४.
तथा यज्ञक्रियार्हश्च चंडालत्वविवर्जितः। नास्ति तत्पातकं यच्च तीर्थस्नानान्न नश्यति॥६.४.
सूत उवाच। एवं स निश्चयं कृत्वा गाधिपुत्रो मुनीश्वरः। त्रिशंकुं पृष्ठतः कृत्वा तीर्थयात्रामथाव्रजत्॥६.४.
कुरुक्षेत्रं सरस्वत्यां प्रभासे कुरुजांगले। पृथूदके गयाशीर्षे नैमिषे पुष्करत्रये॥६.४.
वाराणस्यां प्रयागे च केदारे श्रवणे नदे। चित्रकूटे च गोकर्णे शालिग्रामेऽचलेश्वरे॥६.४.
शुक्लतीर्थे सुराज्याख्ये दृषद्वति नदे शुभे। अथान्येषु सुपुण्येषु तीर्थेष्वायतनेषु च॥६.४.
एवं तस्य नरेंद्रस्य सार्धं तेन महात्मना। अतिक्रांतो महान्कालो भ्रममाणस्य भूतले॥६.४.
मुच्यते न च पापेन चंडालत्वेन स द्विजाः। एवंविधेषु तीर्थेषु स्नातोपि च पृथक्पृथक्॥६.४.
ततः क्रमात्समायातः सोऽर्बुदं पर्वतं प्रति। तत्रारुह्य समालोक्य पापघ्नमचलेश्वरम्॥६.४.
यावदायतनात्तस्मान्निर्गच्छति मुनीश्वरः। तावत्तेनेक्षितो नाममार्कंडो मुनिसत्तमः॥६.४.
सोऽपि दृष्ट्वा जगन्मित्रं विश्वामित्रं मुनीश्वरम्। प्रोवाचाथ कुतः प्राप्तः सांप्रतं त्वं मुनीश्वर॥६.४.
कोऽयं तवानुगो रौद्रो दृश्यते चांत्यजाकृतिः। एतत्सर्वं समाचक्ष्व पृच्छतो मम सन्मुने॥६.४.
विश्वामित्र उवाच। एष पार्थिवशार्दूलस्त्रिशंकुरिति विश्रुतः। वसिष्ठस्य सुतैर्नीतश्चंडालत्वं प्रकोपतः॥६.४.
मया चास्य प्रतिज्ञातं सप्तद्वीपवतीं महीम्। प्रभ्रमिष्याम्यहं यावन्मेध्यत्वं त्वमुपेष्यसि॥६.४.
भ्रांतोऽहं भूतले यानि तीर्थान्यायतनानि च। नचैष मेध्यतां प्राप्तः परिश्रांतोस्मि सांप्रतम्॥६.४.
तस्मात्सर्वां महीं त्यक्त्वा लज्जया परया युतः। द्वीपान्महार्णवांस्त्यक्त्वा संप्रयास्याम्यतः परम्॥६.४.
मा वसिष्ठस्य पुत्राणामुपहासपदं गतः। प्रतिज्ञारहितो विप्र सत्यमेद्ब्रवीम्यहम्॥६.४.
श्रीमार्कंडेय उवाच। यद्येवं मुनिशार्दूल कुरुष्व वचनं मम। सप्तद्वीपवतीं पृथ्वीं मा त्यक्त्वा कुत्रचिद्व्रज॥६.४.
एतस्मात्पर्वतात्क्षेत्रं हाटकेश्वरसंज्ञितम्। अस्ति नैर्ऋतदिग्भागे देशे चानर्तसंज्ञके॥६.४.
तत्राद्यं स्थापितं लिंगं हाटकेन सुरोत्तमैः। यत्तत्संकीर्त्यते लोके पाताले हाटकेश्वरम्॥६.४.
पातालजाह्नवीतोयं यत्रैवास्ति द्विजोत्तम। उद्धृते शंभुना लिंगे विनिष्क्रांतं रसातलात्॥६.४.
तत्र प्रविश्य यत्नेन पातालं वसुधाधिपः। करोतु जाह्नवीतोये स्नानं श्रद्धासमन्वितः॥६.४.
पश्चात्पश्यतु तल्लिंगं हाटकेश्वरसंज्ञितम्। भविष्यति ततः शुद्धश्चंडालत्वविवर्जितः॥६.४.
त्वमपि प्राप्स्यसि श्रेयः परं हृदयसंस्थितम्। ततोन्यदपि यत्किंचित्तत्रैव तपसि स्थितः॥६.४.
सूत उवाच। तस्य तद्वचनं श्रुत्वा विश्वामित्रो मुनीश्वरः। त्रिशंकुना समायुक्तो गतस्तत्र द्रुतं ततः॥६.४.
पाताले देवमार्गेण प्रविश्य नृपसत्तमम्। त्रिशंकुं स्नापयामास विधिदृष्टेन कर्मणा॥६.४.