तेपि सन्मंत्रिणस्तूर्णं पुत्रं तस्य सुसम्मतम्। राज्ये नियोजयासमासुर्नादवादित्रनिःस्वनैः॥६.३.
सूत उवाच। त्रिशंकुरिति संचिन्त्य विश्वामित्रं महामुनिम्। मनसा सुचिरं कालं ततश्चक्रे विनिश्चयम्॥६.४.
विश्वामित्रं परित्यज्य नान्योस्ति भुवनत्रये। यः कुर्यान्मे परित्राणं दुःखादस्मात्सुदारुणात्॥६.४.
कुरुक्षेत्रं समुद्दिश्य प्रतस्थे स ततः परम्। सुश्रांतः क्षुत्पिपासार्तो मार्गपृच्छापरायणः॥६.४.
ततः कालेन संप्राप्य कुरुक्षेत्रं स पार्थिवः। यत्नेनान्वेषयामास विश्वामित्राश्रमं ततः॥६.४.
एवं चान्वेषमाणेन तेन भूमिभृता तदा। सुदूरादेव संदृष्टं नीलद्रुमकदम्बकम्॥६.४.
उपरिष्टाद्बकैर्हंसैर्भ्रममाणैः समंततः। आटिभिर्मद्गुभिश्चैव समन्ताज्जलपक्षिभिः॥६.४.
स मत्वा सलिलं तत्र पिपासार्तो महीपतिः। प्रतस्थे सत्वरो हृष्टो जलवातहृतक्लमः॥६.४.
अथापश्यन्मनोहारि सौम्यसत्त्वनिषेवितम्। आश्रमं नदितीरस्थं मनःशोकविनाशनम्॥६.४.
पुष्पितैः फलितैर्वृक्षैः समंतात्परिवारितम्। विविधैर्मधुरारावैर्नादितं विहगोत्तमैः॥६.४.
क्रीडंति नकुलाः सर्पैरूलूका यत्र वायसैः। मूषकैर्वृषदंशाश्च द्वीपिनो विविधैर्मृगैः॥६.४.
अथापश्यन्नदीतीरे स तपस्विगणावृतम्। स्वाध्यायनिरतं दांतं विश्वामित्रं तपोनिधिनम्॥६.४.
तेजसा तपसातीव दीप्यमानमिवानलम्। चीरवल्कलसंवीतं शालवृक्षं समाश्रितम्॥६.४.
अथ गत्वा स राजेन्द्रो दूरस्थोऽपि प्रणम्य तम्। अष्टांगेन प्रणामेन स्वनाम परिकीर्तयन्॥६.४.
तथान्यानपि तच्छिष्यान्कृताञ्जलिपुटः स्थितः। यथाक्रमं यथाज्येष्ठं श्रद्धया परया युतः॥६.४.
धूलिधूसरितांगं तं ते तु दृष्ट्वा महीपतिम्। चंडाल इति मन्वानाश्चिह्नैर्गात्रसमुद्भवैः॥६.४.
भर्त्सयामासुरेवाथ वचनैः परुषाक्षरैः। धिक्छब्दैश्च तथैवान्ये याहियाहीति चासकृत्॥६.४.
कस्त्वं पापेह संप्राप्तो मुनीनामाश्रमोत्तमे। वेदध्वनिसमाकीर्णे साधूनामपि दुर्लभे॥६.४.
तस्माद्गच्छ द्रुतं यावन्न कश्चित्तापसस्तव। दत्त्वा शापं करोत्याशु प्राणानामपि संक्षयम्॥६.४.
त्रिशंकुरुवाच। त्रिशंकुर्नाम भूपोऽहं सूर्यवंशसमुद्भवः। शप्तो वसिष्ठपुत्रैश्च चंडालत्वे नियोजितः॥६.४.
सोऽहं शरणमापन्नः शापमुक्त्यै द्विजोत्तमाः। विश्वामित्रं जगन्मित्रं नान्या मेऽस्ति गतिः परा॥६.४.
विश्वामित्र उवाच। वसिष्ठस्य भवान्याज्यस्तत्पुत्राणां विशेषतः। तत्कस्मादीदृशे पापे तैस्त्वमद्य नियोजितः॥६.४.
कोऽपराधस्त्वया तेषां कृतः पार्थिवसत्तम। प्राणद्रोहः कृतः किं वा दारधर्षणसंभवः॥६.४.
त्रिशंकुरुवाच। अनेनैव शरीरेण स्वर्गाय गमनं प्रति। मया संप्रार्थितो यज्ञो वसिष्ठान्मुनिसत्तमात्॥६.४.
तेनोक्तं न स यज्ञोऽस्ति येन स्वर्गे प्रगम्यते। अनेनैव शरीरेण मुक्त्वा देहांतरं नृप॥६.४.
तच्छ्रुत्वा स मया प्रोक्तो यदि मां न नयिष्यति। स्वर्गं चानेन कायेन सद्यो यज्ञप्रभावतः॥६.४.
तदन्यं गुरुमेवाद्य कर्ताहं नास्ति संशयः। एतज्ज्ञात्वा मुनिः प्राह यत्क्षेमं तत्समाचर॥६.४.
ततोऽहं तेन संत्यक्तस्तत्पुत्रान्प्राप्य निष्ठुरान्। प्रोक्तवानथ तत्सर्वं यद्वसिष्ठस्य कीर्तितम्॥६.४.
ततस्तैः शोकसंतप्तैः शप्तोस्मि मुनिसत्तम। नीतश्चेमां दशां पापां चंडालत्वे नियोजितः॥६.४.
सोऽहं त्वां मनसा ध्यात्वा सुदूरादिहरागतः(?)। आशां गरीयसीं कृत्वा कुरुक्षेत्रे मुनीश्वर॥६.४.