कथं पुत्रांस्तथा पौत्रान्सुहृत्संबंधिबांधवान्। वीक्षयिष्यामि तान्भूयस्तथान्यं सेवकं जनम्॥६.३.
तेऽद्य मामीदृशं श्रुत्वा हर्षं यास्यंति निर्भयाः॥६.३.
ये मया तर्पिता दानैर्ब्राह्मणा वेदपारगाः। तेऽद्य मामीदृशं श्रुत्वा संभविष्यंति दुःखिताः॥६.३.
तथा ये सुहृदोऽभीष्टा नित्यं मम हिते रताः। कामवस्थां प्रयास्यन्ति दृष्ट्वा मां स्थितमीदृशम्॥६.३.
भद्रजात्या गजा ये मे मदान्धाः षष्टिहायनाः। मया विना मिथो युद्धे कस्तानद्य नियोक्ष्यति॥६.३.
अश्वास्तित्तिरकल्माषाः सुदांताः सादिभिर्दृढैः। कस्तांश्चित्रपदन्यासैर्नियाम्यति मया विना॥६.३.
तथा मे भृत्यवर्गास्ते कुलीना युद्धदुर्मदाः। मां विना कस्य यास्यंति समीपेऽद्य सुदुःखिताः॥६.३.
संख्याहीनस्तथा कोशस्तादृङ्मे बहुरत्नभाक्। कस्य यास्यति संभोगं मया हीनस्तु रक्षितः॥६.३.
तथा मे संख्यया हीनं धान्यं गोजाविकं महत्। भविष्यति कथं हीनं मयाभीष्टैस्तु रक्षितम्॥६.३.
एवं बहुविधं राजा स विलप्य च दुःखितः। जगाम नगराभ्याशं पद्भ्यामेव शनैःशनैः॥६.३.
ततो रात्रौ समासाद्य स्वं पुरं जनवर्जितम्। द्वारे स्थित्वा समाहूय पुत्रं मंत्रिभिरन्वितम्॥६.३.
कथयामास वृत्तांतं सर्वं शापसमुद्भवम्। दूरे स्थितः स पुत्राणां वसिष्ठस्य महात्मनः॥६.३.
वज्रपातोपमं वाक्यं तेऽपि तस्य निशम्य तत्। बाष्पपर्याकुलैरास्यै रुरुदुः शोकसंयुताः॥६.३.
हा नाथ हा महाराज हा नित्यं धर्मवत्सल। त्वया हीना भविष्यामः कथमद्य सुदुःखिताः॥६.३.
किमेतद्युज्यते तेषां वासिष्ठानां दुरात्मनाम्। शापं ददुः स्वयाज्यस्य विशेषाद्विनतस्य च॥६.३.
ते वयं राजशार्दूल परित्यज्य गृहादिकम्। अन्त्यजत्वं गमिष्यामस्त्वया सार्धमसंशयम्॥६.३.
त्रिशंकुरुवाच। भक्तिश्चेदस्ति युष्माकं ममोपरि निरर्गल। तन्मे पुत्रस्य मंत्रित्वं सर्वे कुरुत सांप्रतम्॥६.३.
हरिश्चंद्रः सुपुत्रोयं मम ज्येष्ठः सुवल्लभः। नियोजयध्वमव्यग्राः पदव्यां मम सत्वरम्॥६.३.
अहं पुनः करिष्यामि यन्मे मनसि संस्थितम्। मृत्युं वा संप्रयास्यामि सदेहो वा सुरालयम्॥६.३.
एवमुक्त्वा परित्यज्य सर्वांस्तान्स महीपतिः। जगामारण्यमाश्रित्य पद्भ्यामेव शनैः शनैः॥६.३.
तेपि सन्मंत्रिणस्तूर्णं पुत्रं तस्य सुसम्मतम्। राज्ये नियोजयासमासुर्नादवादित्रनिःस्वनैः॥६.३.
सूत उवाच। त्रिशंकुरिति संचिन्त्य विश्वामित्रं महामुनिम्। मनसा सुचिरं कालं ततश्चक्रे विनिश्चयम्॥६.४.
विश्वामित्रं परित्यज्य नान्योस्ति भुवनत्रये। यः कुर्यान्मे परित्राणं दुःखादस्मात्सुदारुणात्॥६.४.
कुरुक्षेत्रं समुद्दिश्य प्रतस्थे स ततः परम्। सुश्रांतः क्षुत्पिपासार्तो मार्गपृच्छापरायणः॥६.४.
ततः कालेन संप्राप्य कुरुक्षेत्रं स पार्थिवः। यत्नेनान्वेषयामास विश्वामित्राश्रमं ततः॥६.४.
एवं चान्वेषमाणेन तेन भूमिभृता तदा। सुदूरादेव संदृष्टं नीलद्रुमकदम्बकम्॥६.४.
उपरिष्टाद्बकैर्हंसैर्भ्रममाणैः समंततः। आटिभिर्मद्गुभिश्चैव समन्ताज्जलपक्षिभिः॥६.४.
स मत्वा सलिलं तत्र पिपासार्तो महीपतिः। प्रतस्थे सत्वरो हृष्टो जलवातहृतक्लमः॥६.४.
अथापश्यन्मनोहारि सौम्यसत्त्वनिषेवितम्। आश्रमं नदितीरस्थं मनःशोकविनाशनम्॥६.४.
पुष्पितैः फलितैर्वृक्षैः समंतात्परिवारितम्। विविधैर्मधुरारावैर्नादितं विहगोत्तमैः॥६.४.