वसिष्ठ उवाच। अनृतं नोक्तपूर्वं मे स्वैरेष्वपि हि जिह्वया। तस्मान्नास्ति मखः कश्चित्सत्यं त्वं यष्टुमिच्छसि॥६.२.
त्रिशंकुरुवाच। यदि मां विप्रशार्दूल न त्वं याजयितुं क्षमः। स्वर्गप्रदेन यज्ञेन वपुषानेन वै विभो॥६.२.
तत्किं ते तपसः शक्त्या ब्राह्मणस्य विचक्षण। अपरं शृणु मे वाक्यं यद्ब्रवीमि परिस्फुटम्। शृण्वतां मुनिवृन्दानां तथान्येषां द्विजोत्तम॥६.२.
यदि मे न करोषि त्वं वचनं वदतोऽसकृत्। तेन यज्ञेन यक्ष्येऽहं तत्कृत्वान्यं द्विजं गुरुम्॥६.२.
सूत उवाच। तस्य तद्वचनं श्रुत्वा वसिष्ठो भगवांस्ततः। तमुवाच विहस्योच्चैः कुरुष्वैवं महीपते॥६.२.
सूत उवाच। ततः प्रणम्य भूयः स वसिष्ठं मुनिपुंगवम्। ययौ तत्र सुतास्तस्य यत्र ते शतसंख्यकाः॥६.३.
तानपि प्राह नत्वा स तमेवार्थं नराधिपः। वसिष्ठवचनं कृत्स्नं तस्य तैरपि शंसितम्॥६.३.
ततस्तान्स पुनः प्राह युष्माकं जनकोऽधुना। अशक्तो मा दिवं नेतुं सशरीरं विसर्जितः॥६.३.
तस्माद्यदि न मां यूयं याजयिष्यथ सांप्रतम्। परित्यज्य करिष्यामि शीघ्रमन्यं पुरोहितम्॥६.३.
यो मां यज्ञप्रभावेन नयिष्यति सुरालयम्। अनेनैव शरीरेण सहितं गुरुपुत्रकाः॥६.३.
तस्य तद्वचनं श्रुत्वा सर्वे ते मुनिसत्तमाः। परं कोपं समाविष्टास्तमूचुः परुषाक्षरैः॥६.३.
यस्मात्त्वया गुरुस्त्यक्तो हितकृत्पापवानसि। तस्माद्भवाधुना पाप चंडालो लोकनिंदितः॥६.३.
अथ तद्वचनांते स तत्क्षणात्पृथिवीपतिः। बभूवांत्यजरूपाढ्यो विकृताकारदेहभृत्॥६.३.
यवमध्यः कृशग्रीवः पिंगाक्षो भुग्ननासिकः। कृष्णांगः शंकुवर्णश्च दुर्गंधेन समावृतः॥६.३.
अथात्मानं समालोक्य विकृतं स नराधिपः। चण्डालधर्मिणं सद्यो लज्जयाऽधोमुखः स्थितः॥६.३.
याहियाहीति विप्रैस्तैर्भर्त्स्यमानो मुहुर्मुहुः। सर्वतः सारमेयैश्च क्लिश्यमानो निरर्गलैः। काककोकिलसंकाशो जीर्णवस्त्रावगुंठितः॥६.३.
ततः स चिन्तयामास दुःखेन महता वृतः। किं करोमि क्व गच्छामि कथं शांतिर्भविष्यति॥६.३.
किं मयैतत्सुमूर्खेण वांछितं दुर्लभं पदम्। तत्प्रभावेन विभ्रष्टः कुलधर्मोऽपि मे स्वकः॥६.३.
किं जलं प्रविशाम्यद्य किं वा दीप्तं हुताशनम्। भक्षयामि विषं किं वा कथं स्यान्मृत्युरद्य मे॥६.३.
अनेन वपुषा दारान्वीक्षयिष्यामि तान्कथम्। तादृशेन शरीरेण याभिः संक्रीडितं मया॥६.३.
कथं पुत्रांस्तथा पौत्रान्सुहृत्संबंधिबांधवान्। वीक्षयिष्यामि तान्भूयस्तथान्यं सेवकं जनम्॥६.३.
तेऽद्य मामीदृशं श्रुत्वा हर्षं यास्यंति निर्भयाः॥६.३.
ये मया तर्पिता दानैर्ब्राह्मणा वेदपारगाः। तेऽद्य मामीदृशं श्रुत्वा संभविष्यंति दुःखिताः॥६.३.
तथा ये सुहृदोऽभीष्टा नित्यं मम हिते रताः। कामवस्थां प्रयास्यन्ति दृष्ट्वा मां स्थितमीदृशम्॥६.३.
भद्रजात्या गजा ये मे मदान्धाः षष्टिहायनाः। मया विना मिथो युद्धे कस्तानद्य नियोक्ष्यति॥६.३.
अश्वास्तित्तिरकल्माषाः सुदांताः सादिभिर्दृढैः। कस्तांश्चित्रपदन्यासैर्नियाम्यति मया विना॥६.३.
तथा मे भृत्यवर्गास्ते कुलीना युद्धदुर्मदाः। मां विना कस्य यास्यंति समीपेऽद्य सुदुःखिताः॥६.३.
संख्याहीनस्तथा कोशस्तादृङ्मे बहुरत्नभाक्। कस्य यास्यति संभोगं मया हीनस्तु रक्षितः॥६.३.
तथा मे संख्यया हीनं धान्यं गोजाविकं महत्। भविष्यति कथं हीनं मयाभीष्टैस्तु रक्षितम्॥६.३.
एवं बहुविधं राजा स विलप्य च दुःखितः। जगाम नगराभ्याशं पद्भ्यामेव शनैःशनैः॥६.३.