यस्तु पूजयते नित्यं श्रद्धायुक्तेन चेतसा। त्र्यंबकाच्युतब्रह्माद्यास्तेन स्युः पूजितास्त्रयः॥६.१.
तस्मात्सर्वप्रयत्नेन शिवलिंगं प्रपूजयेत्। स्पर्शयेदीक्षयेन्नित्यं कीर्तयेच्च द्विजोत्तमाः॥६.१.
सूत उवाच। तस्मिन्नुत्पाटिते लिंगे भूतलाद्द्विजसत्तमाः। पातालाज्जाह्नवीतोयं तेन मार्गेण निःसृतम्। सर्वपापहरं नॄणां सर्वकामप्रदायकम्॥६.२.
तत्र स्वयमभूत्पूर्वं यत्तद्द्विजवरोत्तमाः। शृणुध्वं वदतो मेऽद्य लोकविस्मयकारकम्॥६.२.
त्रिशंकुर्नाम राजेंद्रश्चंडालत्वं समागतः। तत्र स्नातः पुनर्लेभे शरीरं पार्थिवोचितम्॥६.२.
ऋषयः ऊचुः। चंडालत्वं कथं प्राप्तस्त्रिशंकुर्नृपसत्तमः। एतत्त्वं सर्वमाचक्ष्व विस्तरात्सूतनन्दन॥६.२.
सूत उवाच। अहं वः कीर्तयिष्यामि कथामेतां पुरातनीम्। सर्वपापहरां मेध्यां त्रिशंकुनृपसंभवाम्॥६.२.
सूर्यवंशोद्भवः पूर्वं त्रिशंकुरिति विश्रुतः। आसीत्पार्थिवशार्दूलः शार्दूलसमविक्रमः॥६.२.
वसिष्ठस्य मुनेः शिष्यो यज्वा दानपतिः प्रभुः। तेनेष्टं च मखैः सर्वैरग्निष्टोमादिभिः सदा॥६.२.
संपूर्णदक्षिणैरेव वत्सरं वत्सरं प्रति। तथा दानानि सर्वाणि प्रदत्तानि महात्मना॥६.२.
ब्राह्मणेभ्यो विशिष्टेभ्यो दीनेभ्यश्च विशेषतः। व्रतानि च प्रचीर्णानि रक्षिताः शरणागताः॥६.२.
पुत्रवल्लालिता लोकाः शत्रवश्च निषूदिताः। भ्रांतानि भूतले यानि तीर्थान्यायतनानि च। तपस्विभ्यो यथाकामं यच्छता वांछितं धनम्॥६.२.
कस्यचित्त्वथ कालस्य वसिष्ठो भगवान्मुनिः। तेन प्रोक्तः सभामध्ये संस्थितो नतिपूर्वकम्॥६.२.
त्रिशंकुरुवाच। भगवन्यष्टुमिच्छामि तेन यज्ञेन सांप्रतम्। गम्यते त्रिदिवं येन सशरीरेण सत्वरम्॥६.२.
तस्मात्कुरु प्रसादं मे संभारानाहर द्रुतम्। तस्य यज्ञस्य सिद्ध्यर्थं यथार्हान्ब्राह्मणांस्तथा॥६.२.
वसिष्ठ उवाच। न स कश्चित्क्रतुर्येन गम्यते त्रिदिवं नृप। अनेनैव शरीरेण सत्यमेतद्ब्रवीम्यहम्॥६.२.
अग्निष्टोमादयो यज्ञा ये प्रोक्ताः प्राक्स्वयंभुवा। अन्यदेहांतरे स्वर्गः प्राप्यते तैः कृतैर्नृप॥६.२.
यदि वा पृथिवीपाल त्वया यज्ञप्रभावतः। पार्थिवो वा द्विजो वाथ वैश्यो वान्यतरोऽपि वा॥६.२.
स्वयं दृष्टः श्रुतो वापि संजातोऽत्र धरातले। स्वर्गं गतः शरीरेण सहितस्तत्प्रकीर्तय॥६.२.
त्रिशंकुरुवाच। नासाध्यं विद्यते ब्रह्मंस्तवाहं वेद्मि तत्त्वतः। तस्मात्कुरु प्रसादं मे यथा स्यान्मनसेप्सितम्॥६.२.
वसिष्ठ उवाच। अनृतं नोक्तपूर्वं मे स्वैरेष्वपि हि जिह्वया। तस्मान्नास्ति मखः कश्चित्सत्यं त्वं यष्टुमिच्छसि॥६.२.
त्रिशंकुरुवाच। यदि मां विप्रशार्दूल न त्वं याजयितुं क्षमः। स्वर्गप्रदेन यज्ञेन वपुषानेन वै विभो॥६.२.
तत्किं ते तपसः शक्त्या ब्राह्मणस्य विचक्षण। अपरं शृणु मे वाक्यं यद्ब्रवीमि परिस्फुटम्। शृण्वतां मुनिवृन्दानां तथान्येषां द्विजोत्तम॥६.२.
यदि मे न करोषि त्वं वचनं वदतोऽसकृत्। तेन यज्ञेन यक्ष्येऽहं तत्कृत्वान्यं द्विजं गुरुम्॥६.२.
सूत उवाच। तस्य तद्वचनं श्रुत्वा वसिष्ठो भगवांस्ततः। तमुवाच विहस्योच्चैः कुरुष्वैवं महीपते॥६.२.
सूत उवाच। ततः प्रणम्य भूयः स वसिष्ठं मुनिपुंगवम्। ययौ तत्र सुतास्तस्य यत्र ते शतसंख्यकाः॥६.३.
तानपि प्राह नत्वा स तमेवार्थं नराधिपः। वसिष्ठवचनं कृत्स्नं तस्य तैरपि शंसितम्॥६.३.
ततस्तान्स पुनः प्राह युष्माकं जनकोऽधुना। अशक्तो मा दिवं नेतुं सशरीरं विसर्जितः॥६.३.
तस्माद्यदि न मां यूयं याजयिष्यथ सांप्रतम्। परित्यज्य करिष्यामि शीघ्रमन्यं पुरोहितम्॥६.३.
यो मां यज्ञप्रभावेन नयिष्यति सुरालयम्। अनेनैव शरीरेण सहितं गुरुपुत्रकाः॥६.३.