तव नामापि संकीर्त्य प्रयाति त्रिदिवालयम्। महादेव महादेव महादेवेति कीर्तनात्॥६.१.
कोटयो ब्रह्महत्यानामगम्यागमकोटयः। सद्यः प्रलयमायांति महादेवेति कीर्तनात्॥६.१.
विप्रो यथा मनुष्याणां नदीनां वा महार्णवः। तथा त्वं सर्वदेवानामाधिपत्ये व्यवस्थितः॥६.१.
नक्षत्राणां यथा चंद्रः प्रदीप्तानां दिवाकरः। तथा त्वं सर्वदेवानामाधिपत्ये व्यवस्थितः॥६.१.
धातूनां कांचनं यद्वद्गंधर्वाणां च नारदः। तथा त्वं सर्वदेवानामाधिपत्ये व्यवस्थितः॥६.१.
ओषधीनां यथा सस्यं नगानां हेमपर्वतः। तथा त्वं सर्वदेवानामाधिपत्ये व्यवस्थितः॥६.१.
तस्मात्कुरु प्रसादं नः सर्वेषां च नृणां विभो। संधारय पुनर्लिंगं स्वकीयं सुरसत्तम॥६.१.
नोचेज्जगत्त्रयं देव नूनं नाशममुपेष्यति। यद्येतद्भूतले लिङ्गं पतति स्थास्यति प्रभो॥६.१.
सूत उवाच। तेषां तद्वचनं श्रुत्वा भगवान्बृषभध्वजः। प्रोवाच प्रणतान्सर्वांस्तान्देवान्व्रीडयान्वितः॥६.१.
मया सतीवियोगार्तियुक्तेन सुरसत्तम। लिंगमेतत्परित्यक्तं शापव्याजाद्द्विजन्मनाम्॥६.१.
कोऽलं पातयितुं लिंगं ममैतद्भुवनत्रये। देवो वा ब्राह्मणो वापि वेत्थ यूयमपि स्फुटम्॥६.१.
तस्मान्नैव धरिष्यामि लिंगमेतद्धरातलात्। किमनेन करिष्यामि भार्यया परिवर्जितः॥६.१.
देवा ऊचुः। तव कांता सती नाम या मृता प्राक्सुरोत्तम। सा जाता मेनकागर्भे गौरी नाम हिमाचलात्॥६.१.
भविष्यति पुनर्भार्या तवैव त्रिपुरांतक। तस्माल्लिंगं समादाय कुरु क्षेमं दिवौकसाम्॥६.१.
देवदेव उवाच। अद्यप्रभृति मे लिंगं यदि देवा द्विजातयः। पूजयंति प्रयत्नेन तर्हीदं धारयाम्यहम्॥६.१.
ब्रह्मोवाच। अहं तव स्वयं लिंगं पूजयिष्यामि शंकर। तथान्ये विबुधाः सर्वे किं पुनर्भुवि मानवाः॥६.१.
ततः प्रविश्य पातालं देवैः सार्धं पितामहः। स्वयमेवाकरोत्पूजां तस्य लिंगस्य भक्तितः॥६.१.
तस्मादनंतरं विष्णुः श्रद्धापूतेन चेतसा। तथान्ये विबुधाः सर्वे शक्राद्याः श्रद्धयान्विताः॥६.१.
ततस्तुष्टो महादेवः पितामहमिदं वचः। प्रोवाच वासुदेवं च विनयावनतं स्थितम्॥६.१.
भवद्भ्यां परितुष्टोऽस्मि तस्मान्मत्तः प्रगृह्यताम्। वरमिष्टं महाभागौ यद्यपि स्यात्सुदुर्लभम्॥६.१.
तावूचतुः। यदि तुष्टोसि देवेश त्रिभागेन समाश्रयम्। आवाभ्यां देहि लिंगेन येनैकत्राश्रयो भवेत्॥६.१.
सूत उवाच। स तथेति प्रतिज्ञाय लिंगमादाय च प्रभुः। स्थाने नियोजयामास सर्वदेवाधिपूजितम्॥६.१.
ततो हाटकमादाय तदाकारं पितामहः। कृत्वा लिंगं स्वयं तत्र स्थापयामास हर्षितः॥६.१.
प्रोवाच चाथ भो विप्राः साधुनादेन नादयन्। लोकत्रयं समस्तानां शृण्वतां त्रिदिवौकसाम्॥६.१.
मया ह्याद्यं त्विदं लिंगं हाटकेन विनिर्मितम्। ख्यातिं यास्यति सर्वत्र पाताले हाटकेश्वरम्॥६.१.
तथान्ये मनुजा ये च हाटकादीनि भक्तितः। मणिमुक्तासुरत्नैश्च कृत्वा लिंगानि कृत्स्नशः॥६.१.
त्रिकालं पूजयिष्यंति ते यास्यंति परां गतिम्। मृन्मयं संपरित्यज्य नीचधातुमयं तथा॥६.१.
एवमुक्त्वा चतुर्वक्त्रः सह सर्वैर्दिवालयैः। जगाम त्रिदिवं सोऽपि कैलासं शशिशेखरः॥६.१.
एतस्मात्कारणाल्लिंगं पूज्यतेऽत्र सुरासुरैः। हरस्य चोत्तमांगानि परित्यज्य विशेषतः॥६.१.
ततः प्रभृति तल्लिंगं स्वयं ब्रह्मा व्यवस्थितः। भगवान्वासुदेवश्च तेन पूज्यं शिवं हि तत्॥६.१.