कृपया परयाविष्टास्तामूचुर्विस्मयान्विताः
कस्मादेनं सुपाप्मानमनुगच्छसि भामिनि
किं रूपेण करिष्यामि विना पत्या निजेन च
विरूपो वा सुरूपो वा दरिद्रो वा धनाधिपः
बालकोऽयं मुनिश्रेष्ठा भवच्छरणमागतः
कृपया परयाविष्टाः संवीक्ष्य च परस्परम् ॥ 7.3.16.
ततो जीवापयामासुस्तत्पतिं ते मुनीश्वराः
एतस्मिन्नेव कालं तु विमानं मनसेप्सितम्
अथ तौ दंपती तेषां मुनीनां भावितात्मनाम्
अथ तैर्मुनिभिः प्रोक्ता सा नारी मणिकर्णिका
पतिव्रतत्वेन तुष्टाः सत्येन च विशेषतः
यदत्रास्ति महालिंगं मन्नाम्ना तद्भविष्यति
एतदेव ममाभीष्टं नान्यदस्ति प्रयोजनम्
तव नामान्वितं जातं तीर्थं वै मणिकर्णिका
वालखिल्यास्तपोनिष्ठा विशेषात्तत्र संस्थिताः
तत्र सूर्यग्रहे प्राप्ते स्नानदानादिकाः क्रियाः 7.3.16.
यं यं काममभिध्याय स्नानं तत्र करोति यः
तस्मात्सर्वप्रयत्नेन स्नानं तत्र समाचरेत्
यत्र पूर्वं तपस्तप्तं पंगुना ब्राह्मणेन च
पंगुनामा द्विजः पूर्वं च्यवनस्यान्वयेऽभवत्
गृहकृत्यनियुक्तोऽसावेकदा बान्धवैर्नृप
अथासौ तैः परित्यक्तो गत्वार्बुदमथाचलम्
लिंगं संस्थाप्य तत्रैव पूजयामास तं विभुम्
शिवभक्तिपरो जातो वायुभक्षो बभूव ह
ततस्तुष्टो महादेवो ब्राह्मणं नृपसत्तम
तव दास्याम्यहं सर्वं यद्यपि स्यात्सुदुर्लभम्
पंगुभावोऽत्र मे यातु प्रसादात्तव शंकर
तवास्तु सततं चात्र सांनिध्यं सह भार्यया 7.3.17.
ख्यातिं तपःप्रभावेन तीर्थं यास्यति सत्तम
चैत्रशुक्लचतुर्द्दश्यां सांनिध्यं मे भवेत्तथा