प्रलयस्य न कालोऽयं सांप्रतं सुरसत्तमाः। शृणुध्वं यन्निमित्तोत्था महोत्पाता भवन्त्यमी॥६.१.
ऋषिभिः पातितं लिंगं देवदेवस्य शूलिनः। शापेनानर्तके देशे कलत्रार्थे महात्मभिः॥६.१.
तेनैतद्व्याकुलीभूतं त्रैलोक्यं सचराचरम्। तस्माद्गच्छामहे तत्र यत्र देवो महेश्वरः॥६.१.
येनास्मद्वचनाच्छीघ्रं तल्लिंगं निदधाति सः। नो चेद्भविष्यति व्यक्तमकाले चापि संक्षयः। त्रैलोक्यस्यापि कृत्स्नस्य सत्यमेतन्मयोदितम्॥६.१.
अथ देवगणाः सर्वे ब्रह्मविष्णुपुरःसराः। आदित्या वसवो रुद्रा विश्वेदेवास्तथाश्विनौ॥६.१.
प्रजग्मुस्त्वरितास्तत्र यत्र देवो महेश्वरः। गर्तामध्यगतः सुप्तो लज्जया परया वृतः॥६.१.
देवा ऊचुः। नमस्ते देवदेवेश भक्तानामभयप्रद। नमस्ते जगदाधार शशिराजितशेखर॥६.१.
त्वं यज्ञस्त्वं वषट्कारस्त्वमापस्त्वं मही विभो। त्वया सृष्टमिदं सर्वं त्रैलोक्यं सचराचरम्॥६.१.
त्वं पासि च सुरश्रेष्ठ तथा नाशं नयिष्यसि। त्वं विष्णुस्त्वं चतुर्वक्त्रस्त्वं चंद्रस्त्वं दिवाकरः॥६.१.
त्वया विना महादेव न किंचिदिह विद्यते। अपि कृत्वा महत्पापं नरो देव धरातले॥६.१.
तव नामापि संकीर्त्य प्रयाति त्रिदिवालयम्। महादेव महादेव महादेवेति कीर्तनात्॥६.१.
कोटयो ब्रह्महत्यानामगम्यागमकोटयः। सद्यः प्रलयमायांति महादेवेति कीर्तनात्॥६.१.
विप्रो यथा मनुष्याणां नदीनां वा महार्णवः। तथा त्वं सर्वदेवानामाधिपत्ये व्यवस्थितः॥६.१.
नक्षत्राणां यथा चंद्रः प्रदीप्तानां दिवाकरः। तथा त्वं सर्वदेवानामाधिपत्ये व्यवस्थितः॥६.१.
धातूनां कांचनं यद्वद्गंधर्वाणां च नारदः। तथा त्वं सर्वदेवानामाधिपत्ये व्यवस्थितः॥६.१.
ओषधीनां यथा सस्यं नगानां हेमपर्वतः। तथा त्वं सर्वदेवानामाधिपत्ये व्यवस्थितः॥६.१.
तस्मात्कुरु प्रसादं नः सर्वेषां च नृणां विभो। संधारय पुनर्लिंगं स्वकीयं सुरसत्तम॥६.१.
नोचेज्जगत्त्रयं देव नूनं नाशममुपेष्यति। यद्येतद्भूतले लिङ्गं पतति स्थास्यति प्रभो॥६.१.
सूत उवाच। तेषां तद्वचनं श्रुत्वा भगवान्बृषभध्वजः। प्रोवाच प्रणतान्सर्वांस्तान्देवान्व्रीडयान्वितः॥६.१.
मया सतीवियोगार्तियुक्तेन सुरसत्तम। लिंगमेतत्परित्यक्तं शापव्याजाद्द्विजन्मनाम्॥६.१.
कोऽलं पातयितुं लिंगं ममैतद्भुवनत्रये। देवो वा ब्राह्मणो वापि वेत्थ यूयमपि स्फुटम्॥६.१.
तस्मान्नैव धरिष्यामि लिंगमेतद्धरातलात्। किमनेन करिष्यामि भार्यया परिवर्जितः॥६.१.
देवा ऊचुः। तव कांता सती नाम या मृता प्राक्सुरोत्तम। सा जाता मेनकागर्भे गौरी नाम हिमाचलात्॥६.१.
भविष्यति पुनर्भार्या तवैव त्रिपुरांतक। तस्माल्लिंगं समादाय कुरु क्षेमं दिवौकसाम्॥६.१.
देवदेव उवाच। अद्यप्रभृति मे लिंगं यदि देवा द्विजातयः। पूजयंति प्रयत्नेन तर्हीदं धारयाम्यहम्॥६.१.
ब्रह्मोवाच। अहं तव स्वयं लिंगं पूजयिष्यामि शंकर। तथान्ये विबुधाः सर्वे किं पुनर्भुवि मानवाः॥६.१.
ततः प्रविश्य पातालं देवैः सार्धं पितामहः। स्वयमेवाकरोत्पूजां तस्य लिंगस्य भक्तितः॥६.१.
तस्मादनंतरं विष्णुः श्रद्धापूतेन चेतसा। तथान्ये विबुधाः सर्वे शक्राद्याः श्रद्धयान्विताः॥६.१.
ततस्तुष्टो महादेवः पितामहमिदं वचः। प्रोवाच वासुदेवं च विनयावनतं स्थितम्॥६.१.
भवद्भ्यां परितुष्टोऽस्मि तस्मान्मत्तः प्रगृह्यताम्। वरमिष्टं महाभागौ यद्यपि स्यात्सुदुर्लभम्॥६.१.