ॐनमः पुरुषोत्तमाय अथ स्कान्दे महापुराणे षष्ठनागरखण्डप्रारम्भः व्यास उवाच॥ स धूर्जटि जटाजूटो जायतां विजयाय वः। यत्रैकपलितभ्रांतिं करोत्यद्यापि जाह्नवी॥६.१.
ऋषय ऊचुः। हरस्य पूज्यते लिंगं कस्मादतन्महामते विशेषात्संपरित्यज्य शेषांगानि सुरासुरैः॥६.१.
तस्मादेतन्महाबाहो यथावद्वक्तुमर्हसि। सांप्रतं सूत कार्त्स्न्येन परं कौतूहलं हि नः॥६.१.
सूत उवाच। प्रश्नभारो महानेष यो भवद्भिरुदाहृतः। कीर्तयिष्ये तथाप्येनं नमस्कृत्य स्वयंभुवे॥६.१.
आनर्तविषये चास्ति वनं मुनिजनाश्रयम्। मनोज्ञं सर्वसत्त्वानां सर्वर्तुफलितद्रुमम्॥६.१.
तत्राश्रमपदं रम्यं सौम्यसत्त्वनिषेवितम् ६.१.
अब्भक्षैर्वायुभक्षैश्च शीर्णपर्णाशिभिस्तथा। दन्तोलूखलिभिर्विप्रैः सेवितं चाश्मकुट्टकैः॥६.१.
स्नानहोमपरैश्चैव जपस्वाध्यायतत्परैः। वानप्रस्थैस्त्रिदण्डैश्च हंसैश्चापि कुटीचरैः॥६.१.
स्नातकैर्यतिभिर्दान्तैस्तथा पंचाग्निसाधकैः। कस्यचित्त्वथ कालस्य भगवांस्त्रिपुरांतकः॥६.१.
सतीवियोगसंतप्तो भ्रममाण इतस्ततः। तस्मिन्वने समायातः सौम्यसत्त्वनिषेविते॥६.१.
क्रीडंति नकुला यत्र सार्धं सर्पैःप्रहर्षिताः। पञ्चाननाश्च मातंगैर्वृषदंशास्तथाखुभिः। काकाः कौशिकसंघैश्च वैरभावविवर्जिताः॥६.१.
ततश्च भगवान्रुद्रो दृष्ट्वाश्रमपदं तदा। नग्नः कपालमादाय भिक्षार्थं प्रविवेश सः॥६.१.
अथ तस्य समालोक्य रूपं गात्रसमुद्भवम्। अदृष्टपूर्वं तापस्यः सर्वाः कामवशं गताः॥६.१.
गृहकर्म परित्यज्य गुरुशुश्रूषणानि च। मिथः संभाषणं चक्रुः स्थानेस्थाने च ताः स्थिताः॥६.१.
एका सा कापि धन्या या चक्रे तस्यावगूहनम्। विश्रब्धा सर्वगात्रेषु तापसस्य महात्मनः॥६.१.
तथान्याः कौतुकाविष्टा धावंत्यः सर्वतोदिशम्। दृश्यंते तं समुद्दिश्य विस्तारितविलोचनाः॥६.१.
काश्चिदर्द्धानुलिप्तांग्यः काश्चिदेकांजितेक्षणाः। अर्धसंयमितैः कैशैस्तथान्यास्त्यक्तबालकाः॥६.१.
एवमालोक्यमानः स कामिनीभिर्महेश्वरः। बभ्राम राजमार्गेण भिक्षां देहीति कीर्तयन्॥६.१.
अथ ते मुनयो दृष्ट्वा तं तथा विगतांबरम्। कामोद्भवकरंस्त्रीणां प्रोचुः कोपारुणेक्षणाः॥६.१.
यस्मात्पाप त्वयास्माकमाश्रमोऽयं विडंबितः। तस्माल्लिंगं पतत्वाशु तवैव वसुधातले॥६.१.
एतस्मिन्नंतरे भूमौ लिंगं तस्य पपात तत्। भित्त्वाथ धरणीपृष्ठं पातालं प्रविवेश ह॥६.१.
सोऽपि लिंगपरित्यक्तो लज्जायुक्तो महेश्वरः। गर्तां गुर्वीं समाश्रित्य भ्रूणरूपः समाविशत्॥६.१.
अथ लिंगस्य पातेन त्रैलोक्यभयशंसिनः। उत्पाता दारुणास्तस्थुः सर्वत्र द्विजसत्तमाः॥६.१.
शीर्यते गिरिशृङ्गाणि पतंत्युल्का दिवापि च। त्यजंति सागराः सर्वे मर्यादां च शनैः शनैः॥६.१.
अथ देवगणाः सर्वे भयसंत्रस्तमानसाः। शक्रविष्णुमुखा जग्मुर्यत्र देवः पितामहः॥६.१.
प्रोचुश्च प्रणताः स्तुत्वा स्तोत्रैः सुश्रुतिसंभवैः। त्रैलोक्ये सृष्टिरूपं यत्कमलासनसंस्थितम्॥६.१.
किमिदं किमिदं देव वर्तते ह्यधरोत्तरम्। त्रैलोक्यं सकलं येन व्याकुलत्वमुपागतम्॥६.१.
प्रलयस्येव चिह्नानि दृश्यंते पद्मसंभव। किं सांप्रतमकालेऽपि भविष्यति परिक्षयः॥६.१.
सर्वेषां सुरमर्त्यानां दैत्यानां मन्त्रकोविदः। गतिर्भयार्तदेहानां सर्वलोकपितामहः॥६.१.
तेषां तद्वचनं श्रुत्वा देवानां चतुराननः। उवाच सुचिरं ध्यात्वा ज्ञात्वा दिव्येन चक्षुषा॥६.१.