पितामहेश्वरं गत्वा ततस्तु कलशेश्वरम्
नागेश्वरो हरिश्चंद्रश्चिंतामणिविनायकः
वसिष्ठवामदेवौ च मूर्तिरूपधरावुभौ
सीमाविनायकं चाथ करुणेशं ततो व्रजेत् आशाविनायकश्चाथ वृद्धादित्यस्ततः पुनः
चतुर्वक्त्रेश्वरं लिंगं ब्राह्मीशस्तु ततः परः
चंडीचंडीश्वरौ दृश्यौ भवानीशंकरौ ततः 4.2.100.
लांगलीशस्ततोभ्यर्च्यस्ततस्तु नकुलीश्वरः
प्रतिग्रहेश्वरं वापि निष्कलंकेशमेव च
गंगेशोर्च्यस्ततो ज्ञानवाप्यां स्नानं समाचरेत्
दंडपाणिं महेशं च मोक्षेशं प्रणमेत्ततः
विनायकांस्ततः पंच विश्वनाथं ततो व्रजेत्
अंतर्गृहस्य यात्रेयं यथावद्या मया कृता
इति मंत्रं समुच्चार्य क्षणं वै मुक्तिमंडपे
संप्राप्य वासरं विष्णोर्विष्णुतीर्थेषु सर्वतः
नभस्य पंचदश्यां च कुलस्तंभं समर्चयेत्
श्रद्धापूर्वमिमा यात्रा कर्तव्याः क्षेत्रवासिभिः 4.2.100.
अधीत्य चतुरो वेदान्सांगान्यत्फलमाप्यते 4.2.100.
य इदं श्रावयेद्विद्वान्समस्तं त्वर्धमेव वा 4.2.100.
तस्य पुत्रो भवत्येव शंभोराज्ञा प्रभावतः 4.2.100.
सर्वेषां मंगलानां च महामंगलमुत्तमम्
ॐनमः पुरुषोत्तमाय अथ स्कान्दे महापुराणे षष्ठनागरखण्डप्रारम्भः व्यास उवाच॥ स धूर्जटि जटाजूटो जायतां विजयाय वः। यत्रैकपलितभ्रांतिं करोत्यद्यापि जाह्नवी॥६.१.
ऋषय ऊचुः। हरस्य पूज्यते लिंगं कस्मादतन्महामते विशेषात्संपरित्यज्य शेषांगानि सुरासुरैः॥६.१.
तस्मादेतन्महाबाहो यथावद्वक्तुमर्हसि। सांप्रतं सूत कार्त्स्न्येन परं कौतूहलं हि नः॥६.१.
सूत उवाच। प्रश्नभारो महानेष यो भवद्भिरुदाहृतः। कीर्तयिष्ये तथाप्येनं नमस्कृत्य स्वयंभुवे॥६.१.
आनर्तविषये चास्ति वनं मुनिजनाश्रयम्। मनोज्ञं सर्वसत्त्वानां सर्वर्तुफलितद्रुमम्॥६.१.
तत्राश्रमपदं रम्यं सौम्यसत्त्वनिषेवितम् ६.१.
अब्भक्षैर्वायुभक्षैश्च शीर्णपर्णाशिभिस्तथा। दन्तोलूखलिभिर्विप्रैः सेवितं चाश्मकुट्टकैः॥६.१.
स्नानहोमपरैश्चैव जपस्वाध्यायतत्परैः। वानप्रस्थैस्त्रिदण्डैश्च हंसैश्चापि कुटीचरैः॥६.१.
स्नातकैर्यतिभिर्दान्तैस्तथा पंचाग्निसाधकैः। कस्यचित्त्वथ कालस्य भगवांस्त्रिपुरांतकः॥६.१.
सतीवियोगसंतप्तो भ्रममाण इतस्ततः। तस्मिन्वने समायातः सौम्यसत्त्वनिषेविते॥६.१.