मणिकर्ण्यां ततः स्नात्वा पश्येदीशानमीश्वरम्
कापिलेय ह्रदे स्नात्वा वीक्षेत वृषभध्वजम्
पंचचूडाह्रदे स्नात्वा ज्येष्ठस्थानं ततोर्चयेत्
देवस्याग्रे तु या वापी तत्रोपस्पर्शने कृते
दंडखाते ततः स्नात्वा व्याघ्रेशं पूजयेत्ततः
जंबुकेशं महालिंगं कृत्वा यात्रामिमां नरः 4.2.100.
समारभ्य प्रतिपदं यावत्कृष्णा चतुर्दशी
इमां यात्रां नरः कृत्वा न भूयोप्यभिजायते
आग्नीध्र कुंडे सुस्नातः पश्येदाग्नीध्रमीश्वरम्
आषाढीशं ततो दृष्ट्वा भारभूतेश्वरं ततः
ततो मनःप्रकामेशं प्रीतिकेशमथो व्रजेत्
यात्रैकादशलिंगानामेषा कार्या प्रयत्नतः
अतः परं प्रवक्ष्यामि गारी यात्रामनुत्तमाम्
गोप्रेक्षतीर्थे सुस्नाय मुखनिर्मालिकां व्रजेत्
सौभाग्यगौरी संपूज्या ज्ञानवाप्यां कृतोदकैः
स्नात्वा विशालगंगायां विशालाक्षीं ततो व्रजेत् 4.2.100.
स्नात्वा भवानीतीर्थेथ भवानीं परिपूजयेत्
ततो गच्छेन्महालक्ष्मीं स्थिरलक्ष्मीसमृद्धये
न दुःखैरभिभूयेत इहामुत्रापि कुत्रचित्
ब्राह्मणेभ्यस्तदुद्देशाद्देया वै मोदका मुदे
रविवारे रवेर्यात्रा षष्ठ्यां वारविसंयुजि
नवम्यामथवाष्टम्यां चंडीयात्रा शुभा मता
प्रातःस्नानं विधायादौ नत्वा पंचविनायकान्
अंतर्गृहस्य यात्रा वै करिष्ये घौघशांतये
स्नात्वा मौनेन चागत्य मणिकर्णीशमर्चयेत्
पर्वतेशं ततो दृष्ट्वा गंगाकेशवमप्यथ 4.2.100.
ततो वै सोमनाथं च वाराहं च ततो व्रजेत्
कश्यपेशं नमस्कृत्य हरिकेशवनं ततः
गोकर्णेश्वरमभ्यर्च्य हाटकेशमथो व्रजेत्
भारभूतं ततो नत्वा चित्रेगुप्तेश्वरं ततः