त्रिविष्टपं महादेवं ततो वै कृत्तिवाससम्
धर्मेश्वरं च वीरेशं गच्छेत्कामेश्वरं ततः
अविमुक्तेश्वरं दृष्ट्वा ततो विश्वेशमर्चयेत्
यस्तु क्षेत्रमुषित्वा तु नैतां यात्रां समाचरेत्
अष्टायतन यात्रान्या कर्तव्या विघ्रशांतये
गंगेशो नर्मदेशश्च गभस्तीशः सतीश्वरः 4.2.100.
दृश्यान्येतानि लिंगानि महापापोपशांतये
सर्वविघ्रोपहंत्री च कर्तव्या क्षेत्रवासिभिः
स्नानं तु संगमे कृत्वा द्रष्टव्यः संगमेश्वरः
स्नात्वा मंदाकिनी तीर्थे द्रष्टव्यो मध्यमेश्वरः
मणिकर्ण्यां ततः स्नात्वा पश्येदीशानमीश्वरम्
कापिलेय ह्रदे स्नात्वा वीक्षेत वृषभध्वजम्
पंचचूडाह्रदे स्नात्वा ज्येष्ठस्थानं ततोर्चयेत्
देवस्याग्रे तु या वापी तत्रोपस्पर्शने कृते
दंडखाते ततः स्नात्वा व्याघ्रेशं पूजयेत्ततः
जंबुकेशं महालिंगं कृत्वा यात्रामिमां नरः 4.2.100.
समारभ्य प्रतिपदं यावत्कृष्णा चतुर्दशी
इमां यात्रां नरः कृत्वा न भूयोप्यभिजायते
आग्नीध्र कुंडे सुस्नातः पश्येदाग्नीध्रमीश्वरम्
आषाढीशं ततो दृष्ट्वा भारभूतेश्वरं ततः
ततो मनःप्रकामेशं प्रीतिकेशमथो व्रजेत्
यात्रैकादशलिंगानामेषा कार्या प्रयत्नतः
अतः परं प्रवक्ष्यामि गारी यात्रामनुत्तमाम्
गोप्रेक्षतीर्थे सुस्नाय मुखनिर्मालिकां व्रजेत्
सौभाग्यगौरी संपूज्या ज्ञानवाप्यां कृतोदकैः
स्नात्वा विशालगंगायां विशालाक्षीं ततो व्रजेत् 4.2.100.
स्नात्वा भवानीतीर्थेथ भवानीं परिपूजयेत्
ततो गच्छेन्महालक्ष्मीं स्थिरलक्ष्मीसमृद्धये
न दुःखैरभिभूयेत इहामुत्रापि कुत्रचित्
ब्राह्मणेभ्यस्तदुद्देशाद्देया वै मोदका मुदे