यात्रा परिक्रमं ब्रूहि जनानां हितकाम्यया
यथा प्रथमतो यात्रा कर्तव्या यात्रिकैर्मुदा
सचैलमादौ संस्नाय चक्रपुष्करिणीजले
आदित्यं द्रौपदीं विष्णुं दंडपाणिं महेश्वरम्
ज्ञानवापीमुपस्पृश्य नंदिकेशं ततोर्चयेत्
ततः पुनर्दंडपाणिमित्येषा पंचतीर्थिका ।। 4.2.100.
दैनंदिनी विधातव्या महाफलमभीप्सुभिः
द्विसप्तायतनानां च कार्या यात्रा प्रयत्नतः
अथवा प्रतिभूतं च क्षेत्रसिद्धिमभीप्सुभिः
मौनेन यात्रां कुर्वाणः फलं प्राप्नोति यात्रिकः
त्रिविष्टपं महादेवं ततो वै कृत्तिवाससम्
धर्मेश्वरं च वीरेशं गच्छेत्कामेश्वरं ततः
अविमुक्तेश्वरं दृष्ट्वा ततो विश्वेशमर्चयेत्
यस्तु क्षेत्रमुषित्वा तु नैतां यात्रां समाचरेत्
अष्टायतन यात्रान्या कर्तव्या विघ्रशांतये
गंगेशो नर्मदेशश्च गभस्तीशः सतीश्वरः 4.2.100.
दृश्यान्येतानि लिंगानि महापापोपशांतये
सर्वविघ्रोपहंत्री च कर्तव्या क्षेत्रवासिभिः
स्नानं तु संगमे कृत्वा द्रष्टव्यः संगमेश्वरः
स्नात्वा मंदाकिनी तीर्थे द्रष्टव्यो मध्यमेश्वरः
मणिकर्ण्यां ततः स्नात्वा पश्येदीशानमीश्वरम्
कापिलेय ह्रदे स्नात्वा वीक्षेत वृषभध्वजम्
पंचचूडाह्रदे स्नात्वा ज्येष्ठस्थानं ततोर्चयेत्
देवस्याग्रे तु या वापी तत्रोपस्पर्शने कृते
दंडखाते ततः स्नात्वा व्याघ्रेशं पूजयेत्ततः
जंबुकेशं महालिंगं कृत्वा यात्रामिमां नरः 4.2.100.
समारभ्य प्रतिपदं यावत्कृष्णा चतुर्दशी
इमां यात्रां नरः कृत्वा न भूयोप्यभिजायते
आग्नीध्र कुंडे सुस्नातः पश्येदाग्नीध्रमीश्वरम्
आषाढीशं ततो दृष्ट्वा भारभूतेश्वरं ततः