विंध्यनारदसंवादः प्रथमे परिकीर्तितः
अगस्तेराश्रमपदे देवानामागमस्ततः
तीर्थप्रशंसा च ततः सप्तपुर्यस्ततः स्मृताः
इंद्राग्न्योर्लोकसंप्राप्तिस्ततश्च शिवशर्मणः
गंधवत्यलकापुर्योरीशयोस्तु समुद्भवः
उडुलोक कथा तस्मात्ततः शुक्रसमुद्भवः 4.2.100.
सप्तर्षीणां ततो लोका ध्रुवस्य च तपस्ततः
दर्शनं सत्यलोकस्य तस्य वै शिवशर्मणः
स्कंदागस्त्योश्च संवादो मणिकर्ण्याः समुद्भवः
प्रभावश्चापि गंगाया गंगानामसहस्रकम्
दंडपाणेः समुद्भूतिर्ज्ञानवाप्युद्भवस्ततः
ब्रह्मचारि प्रकरणं ततः स्त्रीलक्षणानि च
ततो गृहस्थधर्माश्च ततो योगनिरूपणम्
काश्याश्च वर्णनं तस्माद्योगिनीवर्णनं ततः
सांबादित्यस्य महिमा द्रुपदादित्य शंसनम्
दशाश्वमेधिकं तीर्थं मंदराच्च गणागमः 4.2.100.
मायागणपतेश्चाथ ढुंढिप्रादुर्भवस्ततः
ततः पंचनदोत्पत्तिर्बिंदुमाधवसंभवः
प्रयाणं मंदरात्काशीं वृषभध्वजशूलिनः
ततः क्षेत्ररहस्यस्य कथनं पापनाशनम्
ततः शैलेश्वरकथा रत्नेशस्य च दर्शनम्
देवतानामधिष्ठानं दुर्गासुरपराक्रमः
पुनरोंकारमाहात्म्यं त्रिलोचनसमुद्भवः
ततो धर्मेशमहिमा ततः पक्षिकथा शुभा
ततो वीरेश्वराख्यानं वीरेश महिमा पुनः
विश्वकर्मेश महिमा दक्षयज्ञसमुद्भवः 4.2.100.
ततो वै पार्वतीशस्य महिम्नः परिकीर्तनम्
सतीश्वरसमुत्पत्तिरमृतेशादि वणर्नम्
क्षेत्रतीर्थकदंबं च मुक्तिमंडप संकथा
एतदाख्यानशतकं क्रमेण परिकीर्तितम् अनुक्रमणिकाध्यायेप्यस्ति यात्रापरिक्रमः