रहस्यं परिविज्ञाय क्षेत्रस्य शशिमौलिनः
आनंदकाननस्येह महिमानं महत्तरम्
यथा देव्यै समाख्यायि शिवेन परमात्मना
तवाग्रे च समाख्यातं शुकादीनां च सत्तम 4.2.99.
श्रुत्वाध्यायमिमं पुण्यं सर्वकल्मषनाशनम्
इति श्रीस्कांदे महापुराण एकाशीति साहस्र्यां संहितायां चतुर्थे काशीखंड उत्तरार्धे विश्वेश्वरलिंगमहिमाख्यो नाम नवनवतितमोऽध्यायः
नितरां परितृप्तोस्मि हृदि चापि विधारितम्
अनुक्रमणिकाध्यायं तथा माहात्म्यमुत्तमम्
शुकवैशंपायनाद्याः शृण्वंत्वपि च बालकाः
अनुक्रमणिकाध्यायं माहात्म्यं चापि खंडजम्
विंध्यनारदसंवादः प्रथमे परिकीर्तितः
अगस्तेराश्रमपदे देवानामागमस्ततः
तीर्थप्रशंसा च ततः सप्तपुर्यस्ततः स्मृताः
इंद्राग्न्योर्लोकसंप्राप्तिस्ततश्च शिवशर्मणः
गंधवत्यलकापुर्योरीशयोस्तु समुद्भवः
उडुलोक कथा तस्मात्ततः शुक्रसमुद्भवः 4.2.100.
सप्तर्षीणां ततो लोका ध्रुवस्य च तपस्ततः
दर्शनं सत्यलोकस्य तस्य वै शिवशर्मणः
स्कंदागस्त्योश्च संवादो मणिकर्ण्याः समुद्भवः
प्रभावश्चापि गंगाया गंगानामसहस्रकम्
दंडपाणेः समुद्भूतिर्ज्ञानवाप्युद्भवस्ततः
ब्रह्मचारि प्रकरणं ततः स्त्रीलक्षणानि च
ततो गृहस्थधर्माश्च ततो योगनिरूपणम्
काश्याश्च वर्णनं तस्माद्योगिनीवर्णनं ततः
सांबादित्यस्य महिमा द्रुपदादित्य शंसनम्
दशाश्वमेधिकं तीर्थं मंदराच्च गणागमः 4.2.100.
मायागणपतेश्चाथ ढुंढिप्रादुर्भवस्ततः
ततः पंचनदोत्पत्तिर्बिंदुमाधवसंभवः
प्रयाणं मंदरात्काशीं वृषभध्वजशूलिनः
ततः क्षेत्ररहस्यस्य कथनं पापनाशनम्