मुखवासं तु यो दद्याद्दर्पणं चारुचामरम्
संख्या सागररत्नानां कथंचित्कर्तुमिष्यते
पूजोपकरणद्रव्यं यो घंटा गडुकादिकम्
यो गीतवाद्यनृत्यानामेकं मत्प्रीतये व्यधात्
चित्रलेखनकर्मादि प्रासादे मेऽत्र कारयेत् 4.2.99.
सकृद्विश्वेश्वरं नत्वा मध्ये जन्मसुधीर्नरः
यस्तु विश्वेवरं दृष्ट्वा ह्यन्यत्रापि विपद्यते
विश्वेशाख्या तु जिह्वाग्रे विश्वनाथकथाश्रुतौ
लिंगं मे विश्वनाथस्य दृष्ट्वा यश्चानुमोदते
ममापीदं महालिंगं सदा पूज्यतमं सुराः .
यैर्न विश्वेश्वरो दृष्टो यैर्न विश्वेश्वरः स्मृतः
यैरिदं प्रणतं लिंगं प्रणतास्ते सुरासुरैः दिक्पालपदतः पातः पातः शिवनतेर्नहि
शृण्वंतु देवर्षिगणाः समस्तास्तथ्यं ब्रुवे तच्च परोपकृत्यै
न सत्यलोके न तपस्यहो सुरा वैकुंठकैलासरसातलेषु 4.2.99.
न विश्वनाथस्य समं हि लिंगं न तीर्थमन्यन्मणिकर्णिकातः
वाराणसी तीर्थमयी समस्ता यस्यास्तुनामापि हि तीर्थतीर्थम्
स्थानादमुष्मान्ममराजसौधात्प्राच्यां मनागीशसमाश्रितायाम्
हस्ताः शतं पंच सुरापगायामुदीच्यवाच्योर्मणिकर्णिकेयम्
अस्मिन्ममानंदवने यदेतल्लिंगं सुधाधाम सुधामधाम
येस्मिञ्जनाः कृत्रिमभावबुद्ध्या लिंगं भजिष्यंति च हेतुवादैः
यद्यद्धितं स्वस्य सदैव तत्तल्लिंगेत्र देयं मम भक्तिमद्भिः
दूरस्थितैरप्यधिबुद्धिभिर्यैर्लिंगं समाराधि ममेदमत्र
शृणुष्व विष्णो शृणु सृष्टिकर्तः शृण्वंतु देवर्षिगणाः समस्ताः
अस्मिन्हि लिंगेऽखिलसिद्धिसाधने समर्पितं यैः सुकृतार्जितं वसु 4.2.99.
उत्क्षिप्य बाहुं त्वसकृद्ब्रवीमि त्रयीमयेऽस्मिंस्त्रयमेव सारम्
उत्थाय देवोथ स शक्तिरीशस्तस्मिन्हि लिंगे कृतचारुपूजः
स्कंद उवाच क्षेत्रस्य मैत्रावरुणे विमुक्तस्य महामते
तवाग्रे तु यथाबुद्धि काशीविश्लेषतापि नः
अस्ताचलस्य शिखरं प्राप्तवानेष भानुमान्
प्रणम्यौ मेयमसकृल्लोपामुद्रा समन्वितः