स्वयंभुवोस्य लिंगस्य मम विश्वेशितुः सुराः
पुष्पमात्र प्रदानाच्च चुलुकोदकपूवर्कम्
पूजामात्रं विधायास्य लिंगराजस्य भक्तितः
विधाय महती पूजां पंचामृतपुरःसराम्
वस्त्रपूतजलैर्लिंगं स्नापयित्वा ममामराः 4.2.99.
सुगंधचंदनरसैर्लिंगमालिप्य भक्तितः
सामोद धूपदानैश्च दिव्यगंधाश्रयो भवेत्
कर्पूरवर्तिदीपेन सकृद्दत्तेन भक्तितः
दत्त्वा नैवेद्यमात्रं तु सिक्थेसिक्थे युगंयुगम्
विश्वेशे परमान्नं यो दद्यात्साज्य सशर्करम्
मुखवासं तु यो दद्याद्दर्पणं चारुचामरम्
संख्या सागररत्नानां कथंचित्कर्तुमिष्यते
पूजोपकरणद्रव्यं यो घंटा गडुकादिकम्
यो गीतवाद्यनृत्यानामेकं मत्प्रीतये व्यधात्
चित्रलेखनकर्मादि प्रासादे मेऽत्र कारयेत् 4.2.99.
सकृद्विश्वेश्वरं नत्वा मध्ये जन्मसुधीर्नरः
यस्तु विश्वेवरं दृष्ट्वा ह्यन्यत्रापि विपद्यते
विश्वेशाख्या तु जिह्वाग्रे विश्वनाथकथाश्रुतौ
लिंगं मे विश्वनाथस्य दृष्ट्वा यश्चानुमोदते
ममापीदं महालिंगं सदा पूज्यतमं सुराः .
यैर्न विश्वेश्वरो दृष्टो यैर्न विश्वेश्वरः स्मृतः
यैरिदं प्रणतं लिंगं प्रणतास्ते सुरासुरैः दिक्पालपदतः पातः पातः शिवनतेर्नहि
शृण्वंतु देवर्षिगणाः समस्तास्तथ्यं ब्रुवे तच्च परोपकृत्यै
न सत्यलोके न तपस्यहो सुरा वैकुंठकैलासरसातलेषु 4.2.99.
न विश्वनाथस्य समं हि लिंगं न तीर्थमन्यन्मणिकर्णिकातः
वाराणसी तीर्थमयी समस्ता यस्यास्तुनामापि हि तीर्थतीर्थम्
स्थानादमुष्मान्ममराजसौधात्प्राच्यां मनागीशसमाश्रितायाम्
हस्ताः शतं पंच सुरापगायामुदीच्यवाच्योर्मणिकर्णिकेयम्
अस्मिन्ममानंदवने यदेतल्लिंगं सुधाधाम सुधामधाम
येस्मिञ्जनाः कृत्रिमभावबुद्ध्या लिंगं भजिष्यंति च हेतुवादैः