अथनंदिनमाहूय देवदेव उमाधवः
अथ नंदी समागत्य प्रोवाच वृषभध्वजम्
अथ स्मित्वाब्रवीच्छंभुः सिद्धं नस्तु समीहितम्
ब्रह्मणा हरिणा सार्धं ततोऽगाद्रंगमंडपम् स्कंद उवाच श्रुत्वाध्यायमिमं पुण्यं परमानंदकारणम्
इति श्रीस्कांदे महापुराण एकाशीति साहस्र्यां संहितायां चतुर्थे काशीखंड उत्तरार्धे मुक्तिमंडपगमनं नामाष्टनवतितमोऽध्यायः
शृणु सूत यथा प्रोक्तं कुंभजे शरजन्मना
अगस्त्य उवाच निर्गत्य देवो देवेंद्रैः सहितः किं चकार ह
स्कंद उवाच शृंगारमंडपं प्राप्य यच्चकार वदामि तत्
प्राङ्मुखस्तूपविश्येशः सहास्माभिः सहेशया
वीज्यमानो महेंद्रेण ऋषिभिः परितो वृतः
उदायुधैः सेव्यमानश्चावसन्मानभूरिभिः
दर्शयामास देवेशो लिंगं पश्यत पश्यत
इदमेव हि मे रूपं स्थावरं चाति सिद्धिदम्
जितेंद्रियास्तपोनिष्ठाः पंचार्थज्ञाननिर्मलाः
लिंगार्चनरता नित्यमनन्येंद्रियमानसाः 4.2.99.
कंदमूलफलाहाराः परतत्त्वार्पितेक्षणाः
निरीहा निष्प्रपंचाश्च निरातंका निरामयाः
निस्तीर्णोदग्रसंसारा निर्विकल्पा निरेनसः
सदैव मे महाप्रीता मत्पुत्रा मत्स्वरूपिणः
अर्चितेष्वेष्वहं प्रीतो भविष्यामि न संशयः
कोटिभोज्यफलं सम्यगेकैक परिसंख्यया
सर्वेषां सर्वसिद्धीनां कर्ता भक्तिजुषामिह
आनंदकानने चात्र स्वैरं तिष्ठामि देवताः
स्थास्यामि लिंगरूपेण चिंतितार्थफलप्रदः तानि सर्वाणि चायांति द्रष्टुं लिंगमिदं सदा
अहं सर्वेषु लिंगेषु तिष्ठा्म्येव न संशयः 4.2.99.
येन लिंगमिदं दृष्टं श्रद्धया शुद्धचक्षुषा
श्रवणादस्य लिंगस्य पातकं जन्मसंचितम्
स्मरणादस्य लिंगस्य पापं जन्मद्वयार्जितम्
एतल्लिंगं समुद्दिश्य गृहान्निष्क्रमणक्षणात्
दर्शनादस्य लिंगस्य हयमेधशतोद्भवम्