ये वसंतीह विश्वेश राजधान्यां द्विजोत्तम 4.2.98.
परोद्धरणशीला ये ये परेच्छाप्रपूरकाः
इति तद्वचनं श्रुत्वा प्रहृष्टेंद्रियमानसः
विश्वेशः प्रीयतां चेति प्रोच्य यातो यथागतः
बहिर्निर्गतमात्रस्तु बहुभिः परिभूयते
असावेव हि चांडालः सर्वलोकबहिष्कृतः
स च तद्भयतो गेहात्काकभीतदिवांधवत्
स एकदा संप्रधार्य गृहिण्या लोकदूषितः
मध्ये मार्गं स गच्छन्वै लक्षितस्तु सकांचनः
नीत्वा ते तमरण्यानीं तस्कराः सपरिच्छदम् 4.2.98.
प्रोचुर्भूरिधनं चैतज्जीर्यत्यस्मिन्न जीवति
संप्रधार्येति तेप्राहुः स्मर्तव्यं स्मर पांथिक
निशम्येति मनस्येव कथयामास स द्विजः
कुटुंबमपि तन्नष्टं नष्टश्चापि प्रतिग्रहः
युगपत्सर्वमेवाशु नष्टं दुर्बुद्धिचेष्टया
प्रांते कुटुंबस्मरणात्तथाकाशीस्मृतेरपि
सा कुक्कुटी सुतौ तौ तु ताम्रचूडत्वमापतुः
इत्थं बहुतिथेकाले गते कार्पटिकोत्तमाः
वाराणस्याः कथां प्रोच्चैः कुर्वंतोऽन्योन्यमेव हि
जातिस्मृतिप्रभावेण तत्संगेन तु निर्गताः 4.2.98.
तंदुलादिपरिक्षेपैः प्रापिताः क्षेत्रमुत्तमम्
चरिष्यंतोऽत्र परितो मुक्तिमंडपमुत्तमम्
प्रहासान्मत्कथालापाँल्लाभमोहविवर्जितान्
मन्नामोच्चारणपरान्मत्कथार्पितसुश्रुतीन्
मानयामासुरथ तान्कुक्कुटान्साधुवर्त्मनः क्रमेणाहारमाकुंच्य प्राणांस्त्यक्ष्यंति चात्र वै
पश्यतां सर्वलोकानां विष्णो ते मदनुग्रहात्
निर्विश्य सुचिरं कालं दिव्यान्भोगाननुत्तमान्
ततो लोकास्तददारभ्य कथयिष्यंति सर्वतः
चरित्रमपि वै तेषां ये स्मरिष्यंति मानवाः
इति यावत्कथां शंभुर्भविष्यामग्रतो हरेः 4.2.98.