अस्ति कश्चित्प्रतिग्राही यस्मै दद्यामहं धनम् 4.2.98.
उद्दिष्ट उपविष्टोसौ यो जपेद्ध्यानमुद्रया
इति तेषां वचः श्रुत्वा स गत्वा तत्समीपतः
मामुद्धर महाविप्र तीर्थं मे सफलीकुरु
अथाक्षमालिकां कर्णे कृत्वा ध्यानं विसृज्य च
तस्य संज्ञां स वै बुद्ध्वा प्रोवाचाति प्रहृष्टवत्
इति तद्वचनं श्रुत्वा त्यक्त्वा मौनमुवाच ह
परं तेऽनुग्रहार्थं तु करिष्यामि प्रतिग्रहम्
यावदस्त्यखिलं वित्तं तन्मध्ये न्यस्य कस्यचित्
तावत्तुभ्यं प्रदास्यामि विश्वेशस्त्वं यतो मम
ये वसंतीह विश्वेश राजधान्यां द्विजोत्तम 4.2.98.
परोद्धरणशीला ये ये परेच्छाप्रपूरकाः
इति तद्वचनं श्रुत्वा प्रहृष्टेंद्रियमानसः
विश्वेशः प्रीयतां चेति प्रोच्य यातो यथागतः
बहिर्निर्गतमात्रस्तु बहुभिः परिभूयते
असावेव हि चांडालः सर्वलोकबहिष्कृतः
स च तद्भयतो गेहात्काकभीतदिवांधवत्
स एकदा संप्रधार्य गृहिण्या लोकदूषितः
मध्ये मार्गं स गच्छन्वै लक्षितस्तु सकांचनः
नीत्वा ते तमरण्यानीं तस्कराः सपरिच्छदम् 4.2.98.
प्रोचुर्भूरिधनं चैतज्जीर्यत्यस्मिन्न जीवति
संप्रधार्येति तेप्राहुः स्मर्तव्यं स्मर पांथिक
निशम्येति मनस्येव कथयामास स द्विजः
कुटुंबमपि तन्नष्टं नष्टश्चापि प्रतिग्रहः
युगपत्सर्वमेवाशु नष्टं दुर्बुद्धिचेष्टया
प्रांते कुटुंबस्मरणात्तथाकाशीस्मृतेरपि
सा कुक्कुटी सुतौ तौ तु ताम्रचूडत्वमापतुः
इत्थं बहुतिथेकाले गते कार्पटिकोत्तमाः
वाराणस्याः कथां प्रोच्चैः कुर्वंतोऽन्योन्यमेव हि
जातिस्मृतिप्रभावेण तत्संगेन तु निर्गताः 4.2.98.