श्रुत्वेति वाक्यं जगदीशितुश्च प्रोवाच विष्णुर्वरदं महेशम्
श्रुत्वेति वाक्यं मधुसूदनस्य जगाद तुष्टो नितरां पुरारिः 4.2.98.
आदावनाराध्य भवंतमत्र यो मां भजिष्यत्यपि भक्तियुक्तः
सर्वत्र सौख्यं मम मुक्तिमंडपे संतिष्ठमानस्य भवेदिहाच्युत
निमेषमात्रं स्थिरचित्तवृत्तयस्तिष्ठंति ये दक्षिणमंडपेत्र मे
संस्नाय ये चक्रसरस्यगाधे समस्ततीर्थैक शिरोविभूषणे
स्मरंति ये मामपवर्गमंडपे किंचिद्यथाशक्ति ददत्यपि स्वम्
उपेंद्रतप्तानि तपांसि तैश्चिरं स्नाता हि ते चाखिलतीर्थसार्थकैः
तीर्थानि संतीह पदेपदे हरे तुला क्व तेषां मणिकर्णिकायाः
कैवल्यमंडपस्यास्य भविष्ये द्वापरे हरे
तथा ख्यातिमसौ गंता यथा देवेन भाषितम्
अग्रवेदीसमाचारस्त्यक्ततीर्थप्रतिग्रहः ।। 4.2.98.
अदांभिकोऽक्रूरमनाः सदैवातिथिवल्लभः
विषमेषु शरैस्तीव्रैः कारितस्त्वपदे पदम्
तया च प्रेरितोऽपेयं पपौ चापि विमोहितः
वैष्णवान्धनिनो दृष्ट्वा क्षणं वैष्णववेषभृत्
शिवभक्तान्समालोक्य किंचिच्च परिदित्सुकान्
शिखी चोपग्रहकरः सर्वेभ्योऽसत्प्रतिग्रही
एवं तस्य प्रवृत्तस्य कश्चित्पर्वतदेशतः
स्नात्वा स चक्रसरसि कथयिष्यति चेति वै
अस्ति कश्चित्प्रतिग्राही यस्मै दद्यामहं धनम् 4.2.98.
उद्दिष्ट उपविष्टोसौ यो जपेद्ध्यानमुद्रया
इति तेषां वचः श्रुत्वा स गत्वा तत्समीपतः
मामुद्धर महाविप्र तीर्थं मे सफलीकुरु
अथाक्षमालिकां कर्णे कृत्वा ध्यानं विसृज्य च
तस्य संज्ञां स वै बुद्ध्वा प्रोवाचाति प्रहृष्टवत्
इति तद्वचनं श्रुत्वा त्यक्त्वा मौनमुवाच ह
परं तेऽनुग्रहार्थं तु करिष्यामि प्रतिग्रहम्
यावदस्त्यखिलं वित्तं तन्मध्ये न्यस्य कस्यचित्
तावत्तुभ्यं प्रदास्यामि विश्वेशस्त्वं यतो मम