चारणास्तु स्तुतिं कुर्युर्जर्हृषुर्देवतागणाः
ववुर्गंधवहा वाता ववृषुः कुसुमैर्घनाः
स्थावरा जंगमाः सर्वे जाता आनंदमेदुराः 4.2.98.
विद्याधरेषु साध्येषु किन्नरेषु नरेषु च
निष्प्रत्यूहं च नितरां पुरुषार्थाः पदेपदे
नाद्यापि नीलिमानंतं परित्यजति कर्हिचित्
तेषां ज्योतींषि खेद्यापि राजंते तारकाच्छलात्
रम्यध्वजप्रभाधौता रेजुः प्रति शिवालयम्
चतुर्विधानि वाद्यानि वाद्यंते च क्वचित्क्वचित्
हरित श्वेत मांजिष्ठ नील पीत बहुप्रभाः
रत्नकुट्टिमभूभागा गोपुराग्रेषु रेजिरे
अचेतनान्यपि तदा चेतनानीव संबभुः
तेषामेव हि सर्वेषां तत्तु जन्मदिवाभवत् 4.2.98.
अथाभिषिक्तश्चतुराननेन महर्षिवृंदैः सह देवदेवः
रत्नैरसंख्यैर्बहुभिर्दुकूलैर्माल्यैर्विचित्रैर्लसदिष्टगंधैः
रत्नाकरैश्चापि गिरींद्रव्यैर्यथा स्वमन्यैरपि पुण्यधीभिः
संतोष्य सर्वान्प्रथमं मुनींद्रान्स्वैस्वैर्हृदिस्थैश्च चिराभिलाषैः
इतो निषीदेति समानपूर्वं त्वं मे समस्तप्रभुतैकहेतुः
त्वया दिवोदास नरेंद्रवर्यः सदूपदेशैश्च तथोपदिष्टः
विष्णो वरं ब्रूहि य ईप्सितस्ते नादेयमत्रास्ति किमप्यहो ते
श्रुत्वेति वाक्यं जगदीशितुश्च प्रोवाच विष्णुर्वरदं महेशम्
श्रुत्वेति वाक्यं मधुसूदनस्य जगाद तुष्टो नितरां पुरारिः 4.2.98.
आदावनाराध्य भवंतमत्र यो मां भजिष्यत्यपि भक्तियुक्तः
सर्वत्र सौख्यं मम मुक्तिमंडपे संतिष्ठमानस्य भवेदिहाच्युत
निमेषमात्रं स्थिरचित्तवृत्तयस्तिष्ठंति ये दक्षिणमंडपेत्र मे
संस्नाय ये चक्रसरस्यगाधे समस्ततीर्थैक शिरोविभूषणे
स्मरंति ये मामपवर्गमंडपे किंचिद्यथाशक्ति ददत्यपि स्वम्
उपेंद्रतप्तानि तपांसि तैश्चिरं स्नाता हि ते चाखिलतीर्थसार्थकैः
तीर्थानि संतीह पदेपदे हरे तुला क्व तेषां मणिकर्णिकायाः
कैवल्यमंडपस्यास्य भविष्ये द्वापरे हरे