अद्यापि जायते सिद्धिः सत्यमेतन्मयोदितम्
यं दृष्ट्वा मानवः सद्यः सर्वपापैः प्रमुच्यते
दृष्ट्वा दैत्यान्पुरा देवैर्निर्जितान्नृपसत्तम
कथं दैत्याः सुराञ्जित्वा प्राप्स्यंति च महायशः
एवं स निश्चयं कृत्वा गतोऽर्बुदमथाचलम्
शिवलिंगं प्रतिष्ठाप्य धूपगंधानुलेपनैः
ततो वर्षसहस्रांते तुतोष भगवाञ्छिवः
वरं वरय भद्रं ते यद्यपि स्यात्सुदुर्लभम्
यया जीवंति संप्राप्ता मृत्युं संख्येपि जंतवः
अब्रवीच्च पुनः शुक्रं वरमन्यं वृणीष्व मे
ततो लिंगं पूजयेच्च यः पुमाञ्छ्रद्धयान्वितः॥ 7.3.15.
अल्पमृत्युभयं तस्य मा भूत्तव प्रसादतः
शुक्रोपि दानवान्संख्ये हतान्देवैरनेकशः
विद्यायाश्च प्रभावेन जीवयामास तान्मुनिः
तत्र स्नातो नरः सम्यक्पातकैश्च प्रमुच्यते
तर्पिताः सलिलेनैव किं पुनः पिंडदानतः
मणिकर्णिकसंज्ञं तु सर्वलोकेषु विश्रुतम्
यत्र सिद्धिं गता राजन्वालखिल्या महर्षयः
तेषां तत्रोपविष्टानां मुनीनां भावितात्मनाम्
किरातवनिता काचिन्नाम्ना च मणिकर्णिका
तृषार्त्ता तत्र संप्राप्ता मध्यंदिनगते रवौ
एतस्मिन्नेव काले तु दिव्यरूपवपुर्धरा
अथ तस्याः पतिः प्राप्तस्तदन्वेषणतत्परः
मम भार्यात्र संप्राप्ता यदि दृष्टा सुमध्यमे
तृषार्त्तश्च क्षुधाविष्टो रुदते च मुहुर्मुहुः
दिव्यरूपमिदं प्राप्ता देवैरपि सुदुर्लभम् ॥ 7.3.16.
त्वं चापि सलिले ह्यस्मिन्कुरु स्नानं त्वरान्वितः
अथासौ सह पुत्रेण प्रविष्टस्तत्र निर्झरे
दुःखेन मृत्युमापन्नस्तस्मिन्नेव जलाशये
चितिं कृत्वा समं तेन ज्वालयामास पावकम्