तदुत्तरे पांडवानां पंचलिंगानि सन्मुदे
चित्रगुप्तेश्वरं लिंगं तदुदीच्यामघापहम् 4.2.97.
तदग्रे तारकेशश्च तदग्रे स्वर्णभारदः 4.2.97.
देवस्य दक्षिणे भागे तत्र वापी शुभोदका 4.2.97.
अलर्केशः समभ्यर्च्यः शुक्रेशात्पूर्वदिक्स्थितः 4.2.97.
विशालाक्षीश्वरं लिंगं तत्रैव क्षेत्रवस्तिदम् 4.2.97.
तद्दक्षिणे च केदारो रुद्रानुचरताप्रदः 4.2.97.
यात्रया सर्व लिंगानां यत्फलं तदवाप्यते 4.2.97.
स्वर्गापवर्गयोर्दात्री दृष्टा देहांतसेविता 4.2.97.
सर्वलिंगमयाध्यायं योऽमुं नित्यं जपेत्सुधीः 4.2.97.
महापापानि पापानि ज्ञाताज्ञातानि भूरिशः 4.2.97.
दिव्यं रथं समारुह्य निर्जगाम त्रिविष्टपात्
महामहोत्सवः शंभोः पृच्छते कुंभसंभवे
त्रैलोक्यानंदजननीं महापातकतंकिनीम्
मंदरादागतः शंभुश्चैत्रे दमनपर्वणि
मोक्षलक्ष्मीविलासेथ प्रासादे सिद्धिमागते
ऊर्जशुक्लप्रतिपदि बुधराधासमायुजि
वाद्यमानेषु वाद्येषु प्रसन्नासु हरित्सु च
प्रतिशब्दित भूर्लोक भुवर्लोकांतराध्वनि
जगुर्गंधर्वनिकरा ननृतुश्चाप्सरोगणाः
चारणास्तु स्तुतिं कुर्युर्जर्हृषुर्देवतागणाः
ववुर्गंधवहा वाता ववृषुः कुसुमैर्घनाः
स्थावरा जंगमाः सर्वे जाता आनंदमेदुराः 4.2.98.
विद्याधरेषु साध्येषु किन्नरेषु नरेषु च
निष्प्रत्यूहं च नितरां पुरुषार्थाः पदेपदे
नाद्यापि नीलिमानंतं परित्यजति कर्हिचित्
तेषां ज्योतींषि खेद्यापि राजंते तारकाच्छलात्
रम्यध्वजप्रभाधौता रेजुः प्रति शिवालयम्
चतुर्विधानि वाद्यानि वाद्यंते च क्वचित्क्वचित्
हरित श्वेत मांजिष्ठ नील पीत बहुप्रभाः