अब्रवीत्तं महादेवो वरदोस्मीति पार्थिव
दास्यामि ते प्रसन्नोऽहं यद्यपि स्यात्सुदुर्लभम्
विश्वावसुरुवाच एतल्लिंगं सुरश्रेष्ठ ध्यात्वा मनसि निश्चयम्
सिद्धेश्वरं ततो गत्वा सिद्धिं याति सहस्रशः
प्रभावात्तस्य लिंगस्य कामानिष्टानवाप्नुयुः
न कश्चिद्यजते यज्ञैर्न दानानि प्रयच्छति
उच्छिन्नेषु च यज्ञेषु दानेषु नृपसत्तम 7.3.14.
ज्ञात्वा यज्ञविघातं च तद्विघाताय वासवः
तथापि संनिधौ तस्य सिद्धेशस्य नृपोत्तम
यस्तु माघचतुर्द्दश्यां सोमवारे नृपोत्तम
अद्यापि जायते सिद्धिः सत्यमेतन्मयोदितम्
यं दृष्ट्वा मानवः सद्यः सर्वपापैः प्रमुच्यते
दृष्ट्वा दैत्यान्पुरा देवैर्निर्जितान्नृपसत्तम
कथं दैत्याः सुराञ्जित्वा प्राप्स्यंति च महायशः
एवं स निश्चयं कृत्वा गतोऽर्बुदमथाचलम्
शिवलिंगं प्रतिष्ठाप्य धूपगंधानुलेपनैः
ततो वर्षसहस्रांते तुतोष भगवाञ्छिवः
वरं वरय भद्रं ते यद्यपि स्यात्सुदुर्लभम्
यया जीवंति संप्राप्ता मृत्युं संख्येपि जंतवः
अब्रवीच्च पुनः शुक्रं वरमन्यं वृणीष्व मे
ततो लिंगं पूजयेच्च यः पुमाञ्छ्रद्धयान्वितः॥ 7.3.15.
अल्पमृत्युभयं तस्य मा भूत्तव प्रसादतः
शुक्रोपि दानवान्संख्ये हतान्देवैरनेकशः
विद्यायाश्च प्रभावेन जीवयामास तान्मुनिः
तत्र स्नातो नरः सम्यक्पातकैश्च प्रमुच्यते
तर्पिताः सलिलेनैव किं पुनः पिंडदानतः
मणिकर्णिकसंज्ञं तु सर्वलोकेषु विश्रुतम्
यत्र सिद्धिं गता राजन्वालखिल्या महर्षयः
तेषां तत्रोपविष्टानां मुनीनां भावितात्मनाम्
किरातवनिता काचिन्नाम्ना च मणिकर्णिका