नमस्कृत्य प्रतिगृहं तस्य भिक्षां न्यषेधयत्
वेलातिक्रममालोक्य पुनर्बभ्राम तां पुरीम्
तदह्निनालभद्भिक्षां सशिष्यः स मुनिः क्वचित्
उपोषणपरो भूत्वा तथैवासीदहर्निशम्
ययौ भिक्षाटनं कर्तुं सशिष्यः परितः पुरीम्
न क्वापि लब्धवान्भिक्षां भाग्यहीनो धनं यथा
को हेतुर्यन्न लभ्येत भिक्षा यत्नेन रक्षिता 4.2.96.
भवद्भिरपि नो भिक्षा परिप्राप्तेति गम्यते
द्वितीयेह्न्यपि यद्भिक्षा न लभ्येतातियत्नतः
अन्नक्षयो वा सर्वस्यां नगर्यामभवत्क्षणात्
अथवा वारिता भिक्षा केनाप्यस्मासु चेर्ष्यया
किमेतदखिलमज्ञात्वा समागच्छत सत्वरम् समाचख्युः समागम्य दृष्ट्वर्द्धि तत्पुरौकसाम्
नान्नक्षयो वा सर्वस्यां नगर्यामिह कुत्रचित्
यत्र विश्वेश्वरः साक्षाद्यत्राऽमरधुनी स्वयम्
समृद्धिर्या गृहस्थानामिह विश्वेशितुः पुरि
रत्नाकरेषु रत्नानि न तावंति महामुने
गृहेगृहेत्र धान्यानां राशयो यादृशः पुनः 4.2.96.
श्रीकंठाः सर्व एवात्र सर्वे मृत्युंजया ध्रुवम् 4.2.96.
सरस्वती सरिद्रूपा ह्यतः शास्त्रनिकेतनम्
सर्वे सुरनिकायाश्च सर्व एव महर्षयः 4.2.96.
गर्वः परोत्र विद्यानां धनगर्वोत्र वै महान्
अथ गच्छन्महादेव्या गृहद्वारि निषण्णया 4.2.96.
असत्कृत्यातिथिं नाथो न मे भोक्ष्यति कर्हिचित्
मन्ये धर्ममयी मूर्तिः कापि त्वं शुचिमानसा
किंवा नु करुणामूर्तिरिह काशिनिवासिनाम् 4.2.96.
अत्रत्यस्यैव हि मुने गृहिणी गृहमेधिनः 4.2.96.
यावतार्थिजनस्तृप्तिमेति सर्वोपि सर्वशः 4.2.96.
अतितृप्तिं समापन्नास्ते तदन्ननिषेवणात् 4.2.96.
विचार्य कारिता नित्यं स्वधिष्ण्योदय चिंतनम् 4.2.96.
अद्य प्रभृति न क्षेत्रे मदीये शापवर्जिते ।। 4.2.96.