पलमेकं पयः पीत्वा सर्पिषश्च पलद्वयम्
गोमूत्रेण समायुक्तं यावकं यः प्रयोजयेत्
हस्तावुत्तानतः कृत्वा दिवसं मारुताशनः
एकैकं ह्रासयेद्ग्रासं कृष्णे शुक्ले च वर्धयेत्
एकैकं वर्धयेद्ग्रासं शुक्ले कृष्णे च ह्रासयेत्
चतुरः प्रातरश्नीयात्पिंडान्विप्रः समाहितः
अष्टावष्टौ समश्नीयात्पिंडान्मध्यंदिने स्थिते 4.2.96.
यथाकथंचित्पिंडानां तिस्रोशीतीः समाहितः
अद्भिर्गात्राणि शुध्यंति मनः सत्येन शुद्ध्यति
तच्च ज्ञानं भवेत्पुंसां सम्यक्काशीनिषेवणात्
ततो महोदयावाप्तिः कर्मनिर्मूलनक्षमा
व्रतं पुराणश्रवणं स्मृत्युक्ताध्व निषेवणम्
लिंगार्चनं त्रिकालं च लिंगस्यापि प्रतिष्ठितिः
अतिथेश्चापि सत्कारो मैत्रीतीर्थनिवासिभिः
अकामिता त्वनौद्धत्यमरागित्वमहिंसनम्
अदंभितात्वमात्सर्यमप्रार्थितधनागमः
इत्यादि सत्प्रवृत्तिश्च कर्तव्या क्षेत्रवासिना 4.2.96.
नित्यं त्रिषवणस्नायी नित्यं भिक्षाकृताशनः
एकदा तस्य जिज्ञासां कर्तुं देवीं हरोवदत्
अपि सर्वगते क्वापि भिक्षां मा यच्छ सुंदरि
नमस्कृत्य प्रतिगृहं तस्य भिक्षां न्यषेधयत्
वेलातिक्रममालोक्य पुनर्बभ्राम तां पुरीम्
तदह्निनालभद्भिक्षां सशिष्यः स मुनिः क्वचित्
उपोषणपरो भूत्वा तथैवासीदहर्निशम्
ययौ भिक्षाटनं कर्तुं सशिष्यः परितः पुरीम्
न क्वापि लब्धवान्भिक्षां भाग्यहीनो धनं यथा
को हेतुर्यन्न लभ्येत भिक्षा यत्नेन रक्षिता 4.2.96.
भवद्भिरपि नो भिक्षा परिप्राप्तेति गम्यते
द्वितीयेह्न्यपि यद्भिक्षा न लभ्येतातियत्नतः
अन्नक्षयो वा सर्वस्यां नगर्यामभवत्क्षणात्