वटोदुंबरराजीव बिल्वपत्रकुशोदकम्
पिण्याकघृततक्रांबु सक्तूनां प्रतिवासरम्
हविषा प्रातरश्नीत हविषा सायमेव च
एकैकग्रासमश्नीयादहानि त्रीणि पूर्ववत्
कृच्छ्रातिकृच्छ्रं पयसा दिवसानेकविंशतिः
त्र्यहं प्रातस्त्रयहं सायं त्र्यहमद्यादयाचितम्
गोमूत्रं गोमयं क्षीरं दधिसर्पिः कुशोदकम् 4.2.96.
पृथक्सांतपनद्रव्यैः षडहः सोपवासकः
तप्तकृच्छ्रं चरन्विप्रो जलक्षीरघृतानिलान्
त्र्यहमुष्णाः पिबेदापस्त्र्यहमुष्णं पयः पिबेत्
पलमेकं पयः पीत्वा सर्पिषश्च पलद्वयम्
गोमूत्रेण समायुक्तं यावकं यः प्रयोजयेत्
हस्तावुत्तानतः कृत्वा दिवसं मारुताशनः
एकैकं ह्रासयेद्ग्रासं कृष्णे शुक्ले च वर्धयेत्
एकैकं वर्धयेद्ग्रासं शुक्ले कृष्णे च ह्रासयेत्
चतुरः प्रातरश्नीयात्पिंडान्विप्रः समाहितः
अष्टावष्टौ समश्नीयात्पिंडान्मध्यंदिने स्थिते 4.2.96.
यथाकथंचित्पिंडानां तिस्रोशीतीः समाहितः
अद्भिर्गात्राणि शुध्यंति मनः सत्येन शुद्ध्यति
तच्च ज्ञानं भवेत्पुंसां सम्यक्काशीनिषेवणात्
ततो महोदयावाप्तिः कर्मनिर्मूलनक्षमा
व्रतं पुराणश्रवणं स्मृत्युक्ताध्व निषेवणम्
लिंगार्चनं त्रिकालं च लिंगस्यापि प्रतिष्ठितिः
अतिथेश्चापि सत्कारो मैत्रीतीर्थनिवासिभिः
अकामिता त्वनौद्धत्यमरागित्वमहिंसनम्
अदंभितात्वमात्सर्यमप्रार्थितधनागमः
इत्यादि सत्प्रवृत्तिश्च कर्तव्या क्षेत्रवासिना 4.2.96.
नित्यं त्रिषवणस्नायी नित्यं भिक्षाकृताशनः
एकदा तस्य जिज्ञासां कर्तुं देवीं हरोवदत्
अपि सर्वगते क्वापि भिक्षां मा यच्छ सुंदरि