तत्फलं सम्यगाप्येत विश्वेश्वर विलोकनात्
यत्षोडशमहादानैः पुण्यं प्रोक्तं महर्षिभिः
अश्वमेधादिभिर्यज्ञैर्यत्फलं प्राप्यतेखिलैः
महापूजोपकरणं योर्पयेद्विश्वभर्तरि
सर्वर्तुकुसुमाढ्यां च यः कुर्यात्पुष्पवाटिकाम्
यः क्षीरस्नपनार्थं वै विश्वेशे धेनुमर्पयेत्
विश्वेशराजसदने यः सुधां चित्रमेव वा 4.2.96.
ब्राह्मणान्यतिनो वापि तथैव शिवयोगिनः
कोटिभोज्यफलं तस्य श्रद्धया नात्र संशयः
विश्वेशस्तोषणीयोत्र स्नानहोमजपादिभिः अष्टोत्तरशतं जप्त्वा तदत्र समवाप्यते
कोटिहोमेन यत्प्रोक्तं फलमन्यत्र सूरिभिः
यो जपेद्रुद्रसूक्तानि काश्यां विश्वेशसन्निधौ
तस्य पुण्यं न जानामि चिंतिते चाक्षरे परे
आपद्यपि हि घोरायां काशी त्याज्या न कुत्रचित्
अवंध्यं दिवसं कुर्यात्स्नानदानजपादिभिः
कृच्छ्रचांद्रायणादीनि कर्तव्यानि प्रयत्नतः
यदींद्रियाणि कुर्वंति विक्रियामिह देहिनाम् 4.2.96.
तेषां स्वरूपमाख्याहि स्कंदेंद्रिय विशुद्धये
यानि कृत्वात्र मनुजो देहशुद्धिं लभेत्पराम्
एकभक्तेन नक्तेन तथैवायाचितेन च
वटोदुंबरराजीव बिल्वपत्रकुशोदकम्
पिण्याकघृततक्रांबु सक्तूनां प्रतिवासरम्
हविषा प्रातरश्नीत हविषा सायमेव च
एकैकग्रासमश्नीयादहानि त्रीणि पूर्ववत्
कृच्छ्रातिकृच्छ्रं पयसा दिवसानेकविंशतिः
त्र्यहं प्रातस्त्रयहं सायं त्र्यहमद्यादयाचितम्
गोमूत्रं गोमयं क्षीरं दधिसर्पिः कुशोदकम् 4.2.96.
पृथक्सांतपनद्रव्यैः षडहः सोपवासकः
तप्तकृच्छ्रं चरन्विप्रो जलक्षीरघृतानिलान्
त्र्यहमुष्णाः पिबेदापस्त्र्यहमुष्णं पयः पिबेत्