चक्रपुष्करिणी तीर्थे स्नातव्यं प्रतिवासरम्
स्ववर्णाश्रमधर्मश्च त्यक्तव्यो न मनागपि
यथाशक्ति च देयानि दानान्यत्र सुगुप्तवत्
परोपकरणं चात्र कर्तव्यं सुधिया सदा
विशेषपूजा कर्तव्या सुमहोत्सवपूर्वकम
अत्र मर्म न वक्तव्यं सुधियां कस्यचित्क्वचित्
परापवादो नो वाच्यः परेर्ष्यां न च कारयेत्
अत्रत्य जंतुरक्षार्थमसत्यमपि भाषयेत्
अत्रत्यः प्राणिमात्रोपि रक्षणीयः प्रयत्नतः त्रैलोक्यरक्षणात्पुण्यं यत्स्यात्तत्स्यान्न संशयः
ये वसंति सदा काश्यां क्षेत्रसंन्यासकारिणः 4.2.96.
ते पूज्यास्ते नमस्कार्यास्ते संतोष्याः प्रयत्नतः
काश्यां वसंति ये मर्त्या दूरस्थैरपि सन्नरैः
प्रसरस्त्विंद्रियाणां च निवार्योत्र निवासिभिः
मरणं नाभिकांक्षेद्धि कांक्ष्यो मोक्षोऽपिनो पुनः
शरीरसौष्ठवं कांक्ष्यं व्रतस्नानादिसिद्धये
आत्मरक्षात्र कर्तव्या महाश्रेयोभिवृद्धये
एकस्मिन्नपि यच्चाह्नि काश्यां श्रेयोभिलभ्यते
अन्यत्र योगाभ्यसनाद्यावज्जन्म यदर्ज्यते
सर्वतीर्थावगाहाच्च यावज्जन्म यदर्ज्यते
सर्वलिंगार्चनात्पुण्यं यावज्जन्म यदर्ज्यते 4.2.96.
तत्फलं सम्यगाप्येत विश्वेश्वर विलोकनात्
यत्षोडशमहादानैः पुण्यं प्रोक्तं महर्षिभिः
अश्वमेधादिभिर्यज्ञैर्यत्फलं प्राप्यतेखिलैः
महापूजोपकरणं योर्पयेद्विश्वभर्तरि
सर्वर्तुकुसुमाढ्यां च यः कुर्यात्पुष्पवाटिकाम्
यः क्षीरस्नपनार्थं वै विश्वेशे धेनुमर्पयेत्
विश्वेशराजसदने यः सुधां चित्रमेव वा 4.2.96.
ब्राह्मणान्यतिनो वापि तथैव शिवयोगिनः
कोटिभोज्यफलं तस्य श्रद्धया नात्र संशयः
विश्वेशस्तोषणीयोत्र स्नानहोमजपादिभिः अष्टोत्तरशतं जप्त्वा तदत्र समवाप्यते