यथा स्तोतुं भवानीश प्रभवाभि भवांतकम
ततः सत्यवतीसूनुस्तथा स्तंभितदोर्लतः
यः क्षीराब्धेर्मंदराघातजातो ज्वालामाली कालकूटोति भीमः
यद्वाणोभूच्छ्रीपतिर्यस्य यंता लोकेशो यत्स्यंदनं भूः समस्ता
यं कदर्पो वीक्षमाणः समानं देवैरन्यैर्भस्मजातः स्वयं हि
यं वै वेदो वेद नो नैव विष्णुर्नोवा वेधा नो मनो नैव वाणी 4.2.95.
यस्मिन्सर्वं यस्तु सर्वत्र सर्वो यो वै कर्ता योऽविता योऽपहर्ता
यस्यैकाख्या वाजिमेधेन तुल्या यस्या न त्या चैकयाल्पेंद्रलक्ष्मीः
नान्यं देवं वेद्म्यहं श्रीमहेशान्नान्यं देवं स्तौमि शंभोर्ऋतेऽहम्
इत्थं यावत्स्तौति शंभुं महर्षिस्तावन्नंदी शांभवाद्दृक्प्रसादात्
नंदिकेश्वर उवाच यः पठिष्यति मेधावी तस्य तुष्यति शंकरः
व्यासाष्टकमिदं प्रातः पठितव्यं प्रयत्नतः
मातृहा पितृहा वापि गोघ्नो बालघ्र एव वा
स्कंद उवाच पाराशर्यस्तदारभ्य शंभुभक्तिपरोभवत्
विभूतिभूषणो नित्यं नित्यरुद्राक्षभूषणः
स कृत्वा क्षेत्रसंन्यासं त्यजेन्नाद्यापि काशिकाम् 4.2.95.
घंटाकर्णह्रदे स्नात्वा दृष्ट्वा व्यासेश्वरं नरः
काश्यां व्यासेश्वरं लिंगं पूजयित्वा नरोत्तमः
व्यासेश्वरस्य ये भक्ता न तेषां कलिकालतः
व्यासेश्वरः प्रयत्नेन द्रष्टव्यः काशिवासिभिः
यदि क्षेत्ररहस्यज्ञः क्षेत्रसंन्यासकृद्यदि
तथा दृष्टप्रभावश्चेत्तथा चेज्ज्ञानिनां वरः
तस्य व्यासस्य चरितं भविष्यं त्वयि पृच्छति
यदारभ्य मुनेस्तस्य नंदी स्तंभितवान्भुजम्
काश्यां तीर्थान्यनेकानि काश्यां लिगान्यनेकशः
लिंगेष्वेको हि विश्वेशस्तीर्थेषु मणिकर्णिका
त्यक्त्वा स बहु वाग्जालं प्रातः स्नात्वा दिनेदिने
शिष्याणां पुरतो नित्यं क्षेत्रस्य महिमा महान्
अत्र यत्क्रियते क्षेत्रे शुभं वाऽशुभमेव वा
क्षेत्रसिद्धिं समीहंते ये चात्र कृतिनो जनाः 4.2.96.