पुंडरीकाक्ष दैत्यारे दामोदर बलप्रिय
विष्वक्चमूस्तार्क्ष्य रथवनमालिन्नरोत्तम
नृसिंह यज्ञवाराह गोपगोपालवल्लभ
जय चाणूरमथन जय त्रैलोक्यरक्षण
कौस्तुभोद्भूषितोरस्क पूतनाधातुशोषण
सहस्रशीर्षपुरुष पुरुहूत सुखप्रद
इत्यादि नाममालाभिः संस्तुवन्वनमालिनम् 4.2.95.
व्यासो विश्वेशभवनं समायातः सुहृष्टवत्
विराजमानसत्कंठस्तुलसीवरदामभिः
वेणुवादनतत्त्वज्ञः स्वयं श्रुतिधरोभवत्
पुनरूर्ध्वभुजं कृत्वा दक्षिणं शिष्यमध्यगः
परिनिर्मथ्य वाग्जालं सुनिश्चित्यासकृद्बहु
इत्यादि श्लोकसंघातं स्वप्रतिज्ञा प्रबोधकम्
तस्तंभ तावत्तद्बाहुं स शैलादिः स्वलीलया
ततो गुप्तं समागम्य विष्णुर्व्यासमभाषत
तवैतदपराधेन भीतिर्मेपि महत्तरा
तत्प्रसादादहं चक्री लक्ष्मीशस्तत्प्रभावतः 4.2.95.
तद्भक्त्या परमैश्वर्यं मया लब्धं वरात्ततः
अन्यदापि न वै कार्या भवता शेमुषीदृशी
भुजस्तंभः कृतस्तेन नंदिना दृष्टिमात्रतः
यथा स्तोतुं भवानीश प्रभवाभि भवांतकम
ततः सत्यवतीसूनुस्तथा स्तंभितदोर्लतः
यः क्षीराब्धेर्मंदराघातजातो ज्वालामाली कालकूटोति भीमः
यद्वाणोभूच्छ्रीपतिर्यस्य यंता लोकेशो यत्स्यंदनं भूः समस्ता
यं कदर्पो वीक्षमाणः समानं देवैरन्यैर्भस्मजातः स्वयं हि
यं वै वेदो वेद नो नैव विष्णुर्नोवा वेधा नो मनो नैव वाणी 4.2.95.
यस्मिन्सर्वं यस्तु सर्वत्र सर्वो यो वै कर्ता योऽविता योऽपहर्ता
यस्यैकाख्या वाजिमेधेन तुल्या यस्या न त्या चैकयाल्पेंद्रलक्ष्मीः
नान्यं देवं वेद्म्यहं श्रीमहेशान्नान्यं देवं स्तौमि शंभोर्ऋतेऽहम्
इत्थं यावत्स्तौति शंभुं महर्षिस्तावन्नंदी शांभवाद्दृक्प्रसादात्