ब्रह्मज्ञानं वदत्येकः श्रुत्वा ज्ञानवि शारदः
गयाश्राद्धं करोत्येकः पितृपक्षे नृपोत्तम
चांद्रायणसहस्रं च करोत्येकः समाहितः
व्रतं तपः सहस्राब्दमेकः सम्यक्चरेन्नरः
एकस्तु चतुरो वेदान्सम्यक्पठति ब्राह्मणः
बहुना किमिहोक्तेन शृणु संक्षेपतो नृप
तस्मात्सर्वप्रयत्नेन स्थातव्यं हरिसंनिधौ
एकतस्तु हृषीकेश एकतः कर्णिकेश्वरः
अपि कृत्वा महत्पापं गच्छंति हरिसन्निधौ
पुष्पमेकं हृषीकेशे यश्चारोपयते नृप 7.3.13.
हृषीकेशस्य यो भक्त्या करिष्यत्यनुलेपनम्
संमार्जनं च तस्याग्रे यः करोति समाहितः मोदते विष्णुलोकस्थो नात्र कार्या विचारणा
कार्तिके शुक्लपक्षे च एकादश्यां नृपोत्तम
यथायथा प्रकाशेत पापं जन्मांतरार्जितम्
पंचामृतेन यः पूजां हृषीकेशे करिष्यति
तस्मात्सर्वप्रयत्नेन हृषीकेशं समर्चयेत्
हृषीकेशे विशेषेण कर्त्तव्यं पूजनं सदा
सिद्धिदं प्राणिनां सम्यक्सिद्धेन स्थापितं पुरा
तत्र विश्वावसुर्नाम सिद्धस्तेपे महातपः
जितक्रोधो जितमदो जितसर्वेंद्रियक्रियः तुतोष नृपतेस्तस्य स्वयं दर्शनमाययौ
अब्रवीत्तं महादेवो वरदोस्मीति पार्थिव
दास्यामि ते प्रसन्नोऽहं यद्यपि स्यात्सुदुर्लभम्
विश्वावसुरुवाच एतल्लिंगं सुरश्रेष्ठ ध्यात्वा मनसि निश्चयम्
सिद्धेश्वरं ततो गत्वा सिद्धिं याति सहस्रशः
प्रभावात्तस्य लिंगस्य कामानिष्टानवाप्नुयुः
न कश्चिद्यजते यज्ञैर्न दानानि प्रयच्छति
उच्छिन्नेषु च यज्ञेषु दानेषु नृपसत्तम 7.3.14.
ज्ञात्वा यज्ञविघातं च तद्विघाताय वासवः
तथापि संनिधौ तस्य सिद्धेशस्य नृपोत्तम
यस्तु माघचतुर्द्दश्यां सोमवारे नृपोत्तम