श्रुतिस्मृतिपुराणानां रहस्यं यस्त्वचीकरत्
सर्वपापप्रशमनं सर्वशांतिकरं परम्
एकदा स मुनिः श्रीमान्पर्यटन्पृथिवीतले
अष्टाशीतिसहस्राणि शौनकाद्यास्तपोधनाः
विभूतिधारिणो भक्त्या रुद्रसूक्तजपप्रियान्
एक एव हि विश्वेशो मुक्तिदो नान्य एव हि
विलोक्य स मुनिर्व्यासस्तासर्वान्गिरिशात्मनः 4.2.95.
परिनिर्मथ्य वाग्जालं सुनिश्चित्यासकृद्बहु
वेदे रामायणे चैव पुराणेषु च भारते
सत्यं सत्यं त्रिसत्यं पुनः सत्यं न मृषा पुनः
लक्ष्मीशः सर्वदो नान्यो लक्ष्मीशोप्यपवर्गदः
भुक्तेर्मुक्तेरिहान्यत्र नान्यो दाता जनार्दनात्
विहाय केशवादन्यं ये सेवंतेल्पमेधसः
एक एव हि सर्वेशो हृषीकेशः परात्परः
एको धर्मप्रदो विष्णुस्त्वेको बह्वर्थदो हरिः
शार्ङ्गिणं ये परित्यज्य देवमन्यमुपासते
श्रुत्वेति वाक्यं व्यासस्य नैमिषारण्यवासिनः 4.2.95.
यतो वेदास्त्वया व्यस्ताः पुराणान्यपि वेत्ति यत्
यतश्च कर्ता त्वमसि महतो भारतस्य वै
तत्त्वज्ञः कोपरश्चात्र त्वत्तः सत्यवतीसुत
अस्मिन्माणवकास्तत्र परिश्रद्दधते नहि
यदाऽऽनंदवने शंभोः प्रतिजानासि वै वचः
गच्छ वाराणसीं व्यास यत्र विश्वेश्वरः स्वयम्
इति श्रुत्वा मुनिर्व्यासः किंचित्कुपितवद्धृदि
प्राप्य वाराणसीं व्यासः स्नात्वा पंचनदे ह्रदे
तत्र स्नानादिकं कृत्वा दृष्ट्वा चैवादिकेशवम्
अग्रतः पृष्ठतः शंखैर्वाद्यमानैः प्रमोदितः 4.2.95.
अच्युतानंतवैकुंठ माधवोपेंद्रकेशव
श्रीवत्सवक्षः श्रीकांत पीतांबर मुरांतक
नारायणासुररिपो कृष्ण शौरे चतुर्भुज