इति श्रुत्वा महादेवः सर्वदो ब्रह्मणो वरम्
ब्रह्मंस्त्वद्वांछितं भूयात्किमदेयं पितामह
रुदन्स उत्तानशयो ब्रह्मणो मुखमैक्षत
किं मां जनकमाप्यापि त्वं रोदिषि मुहुर्मुहुः
नाम्ने रोदिमि मे स्रष्टुर्नाम देहि पितामह 4.2.93.
यदि वेत्सि तदाचक्ष्व महत्कौतूहलं हि मे
रोदने कारणं वच्मि शृणु कुंभसमुद्भव
मनसीति विचारोभूद्देवस्य परमात्मनः
सत्यलोकाधिनाथस्य चतुरास्यस्य वेधसः
किं बुद्धिवैभवं धातुः शंभुना मनसीक्षितम् । येनानंदाश्रु संभारो बाल्येप्यभवदीशितुः
एतत्कथय मे प्राज्ञ सर्वज्ञानंदवर्धन
देवे न मनसि ध्यातमिति कुंभजने मुने
एको मनोरथश्चायं द्वितीयोयं सुनिश्चितम्
क्षणंक्षणं समालोक्यमंगस्पर्शे क्षणंक्षणम् ।। एकशय्यासनाहारं लप्स्यतेऽनेन क्षणेक्षणे !
योयं न गोचरः क्वापि वाणीमनसयोरपि 4.2.93.
योऽमुं सकृत्स्पृशेज्जंतुर्योमुं पश्येत्सकृन्मुदा । न स भूयोभिजायेत भवेच्चानंदमेदुरः
गृहक्रीडनकं मे सौ यदि भूयात्कथंचन
विधेः समीहितं चेति नूनं ज्ञात्वा स सर्ववित्
श्रुत्वैत्यगस्तिः स्कंदस्य भाषितं पर्यमूमुदत्
विधेरपि मनोज्ञातं शंभोरपि मनोगतम् । । सम्यक्चित्तं त्वया ज्ञातं नमस्तुभ्यं चिदात्मने
स्कंदोपि नितरां तुष्टःश्रोतुरानंददर्शनात्
न मे श्रमो वृथा जातो ब्रुवतस्ते पुरः कथाम्
देवे रुद्रत्वमापन्ने देवी दक्षसुताभवत्
इदं सतीश्वरं लिंगं तव नाम्ना भविष्यति . 4.2.93.
तथैतल्लिंगमाराध्यान्यस्यापि हि फलिष्यति
एतल्लिंगं समाराध्य कुमारोपि वरांगनाम्
भविष्यति न संदेहः सतीश्वरसमर्चगात्
तस्य तस्य स स क्षिप्रं भविष्यति मनोरथः
इतोष्टमे च दिवसे त्वज्जनेता प्रजापतिः इत्युक्त्वा देवदेवेशस्तत्रैवांतर्हितोभवत्
सापि स्वभवनं याता सती दाक्षायणी मुदा । । पितापि तस्मै प्रादात्तां रुद्राय दिवसेष्टमे