अथ सा नर्मदा पुण्या विधिपूर्वां प्रतिष्ठितिम्
ततः शंभुः प्रसन्नोभूऽत्तस्यै नद्यै शुभात्मने
सरिद्वरा निशम्येति रेवा प्राह महेश्वरम्
निर्द्वंद्वा त्वत्पदद्वंद्वे भक्तिरस्तु महेश्वर
प्रोवाच च सरिच्छेष्ठे त्वयोक्तं यत्तथास्तु तत् 4.2.92.
यावंत्यो दृषदः संति तव रोधसि नर्मदे
अन्यं च ते वरं दद्या तमप्याकर्णयोत्तमम्
सद्यः पापहरा गंगा सप्ताहेन कलिंदजा
अपरं च वरं दद्यां नर्मदे दर्शनाघहे
यत्तल्लिंगं महापुण्यं मुक्तिं दास्यति शाश्वतीम
प्रणमिष्यंति यत्नेन महाश्रेयोभिवृद्धये
परं हि नर्मदेशस्य महिमा कोपि चाद्भुतः
नर्मदापि प्रहृष्टासीत्पावित्र्यं प्राप्य चाद्भुतम्
वाक्यं मृकंडजमुनेस्तेपि श्रुत्वा मुनीश्वराः
पापकंचुकमुत्सृज्य प्राप्स्यति ज्ञानमुत्तमम् ।। 4.2.92.
इदानीं कथय स्कंद सतीश्वर समुद्भवम्
स्कंद उवाच मित्रावरुणसंभूत कथयामि कथां शृणु
पुरा तताप सुमहत्तपः शतधृतिर्मुने
उवाच चापि ब्रह्माणं नितरां ब्राह्मणप्रियः
तदा त्वं मे भव सुतो देवी दक्षसुताऽस्तु च
इति श्रुत्वा महादेवः सर्वदो ब्रह्मणो वरम्
ब्रह्मंस्त्वद्वांछितं भूयात्किमदेयं पितामह
रुदन्स उत्तानशयो ब्रह्मणो मुखमैक्षत
किं मां जनकमाप्यापि त्वं रोदिषि मुहुर्मुहुः
नाम्ने रोदिमि मे स्रष्टुर्नाम देहि पितामह 4.2.93.
यदि वेत्सि तदाचक्ष्व महत्कौतूहलं हि मे
रोदने कारणं वच्मि शृणु कुंभसमुद्भव
मनसीति विचारोभूद्देवस्य परमात्मनः
सत्यलोकाधिनाथस्य चतुरास्यस्य वेधसः
किं बुद्धिवैभवं धातुः शंभुना मनसीक्षितम् । येनानंदाश्रु संभारो बाल्येप्यभवदीशितुः